________________
१२२
Veteranञ्जरौ |
संख्या न व्यवतिष्ठते श्रन्याङ्गोपाङ्गादीनामपोन्द्रियप्रसङ्गात् यच्चोक्तं नानाश्रयायाः प्रकृतेरेव बन्धमोचौ संसारश्च न पुरुषस्येति तदप्यसारम् अनादिभपरंपरानुबडया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहणलक्षणो ऽविष्वग्भाव: स एव चेन्न बन्धस्तदा को नामान्यो बन्धः स्यात् प्रकृतिः सर्वोत्पत्तिमतां निमित्तमिति च प्रतिपद्यमानेनायुष्मता संज्ञान्तरेण कमैव प्रतिपन्नं तस्यैवैवस्वरुपत्त्वादचेतनत्वाच्च यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धस्तदाथा प्रकृतात्रात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः ये विकारानेव भूतेन्द्रियाहंकारबुडौ: पुरुषबु योपासते तेषां वैकारिकः इष्टापूर्त्तर्दाक्षिणः पुरुतत्त्वानभिज्ञो होष्टा पूर्तिकारी कामोपहतमना बध्यत इति
इष्टापूर्त मन्यमाना वरिष्टं नान्यच्छ्रेयो येऽभिनन्दन्ति मृढाः । नाकस्य ष्टष्ठे ते सुकृतेन भूत्त्वा इमं लोकं होनतर वा विशन्ति ॥
इतिवचनात् मत्रिविधोऽपि कल्पनामात्र कथंचिन्मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नखरूपत्वेन कर्मबन्धहेतुष्वेवान्तर्भावात् बन्धसिद्धौ च सिइस्तस्यैव निर्वाध : संसारो बन्धमोक्षयोश्चैकाधिकरणत्वाद्य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मो