________________
१२१
स्याहादमञ्जरौ। स्तां दधाति ननूक्तमचेतनापि बुद्धिश्चिच्छक्तिसांनिध्याच्चेतनावतीवावभासत इति सत्यमुक्तमयुक्तं व्रत न हि चैतन्यवति पुरुषादौ प्रतिसंक्राते दर्पणस्य चौतन्यापत्तिश्चैतन्याचतन्ययोरपरावर्तिस्वभावत्वेन शक्रेणाप्यन्यथाकर्तु मशक्यत्वात् किं चाचेतनापि चेतनावतीव प्रतिभासत इति इव शद्वेनारोपो ध्वन्यते न चारोपोऽ र्थक्रियासमर्थः न खल्वतिकोपनत्वादिना समारोपिताग्नित्वो माणवकः कदा चिदपि मुख्याग्निसाध्या दाहपाकाद्यर्थक्रिया कर्तुमौश्वर इति चिच्छक्तरेव विषयाध्यवसायो घटते न जडरूपाया बुद्धेरिति अत एव धर्माद्यष्टरूपतादापि तस्या वामानमेव धर्मादौनामात्मधर्मत्वात् अत एव चाहंकारोऽपि न बुद्धिजन्यो युज्यते तस्याभिमानात्मकत्त्वेनात्मधर्मस्याचे तनादुत्पादायोगात् अम्बरादीनां च शब्दादितन्मानजत्वं प्रतीतिपराहतत्वेनैव विहितोत्तरम् अपि च सर्वबादिभिस्तावदविगानेन गगनस्य नित्यत्वमङ्गो क्रियते ऽयं च शब्दतन्मात्रात्तस्याविर्भावमदाबयन्नित्यैकान्तवादिनां च धुरि आसनंन्यासयन्नसंगतप्रलापौव प्रतिभाति न च परिणामिकारणं स्वकार्यस्य गुणो भवितुमर्हतीति शब्दगुणमाकाशमित्यादि वाङ्मानं वागादीनां चेन्द्रियत्वमेव न युज्यते इतरासाध्यकार्यकारित्वाभावात्परप्रतिपादनग्रहणविहरणमलोत्सर्गादिकार्याणामितरावयवैरपि साध्यत्वीपलब्धस्तथापि तत्त्वकल्पने इन्द्रिय