________________
स्थाबादमञ्जरौ। ११३ प्रियसा न हि वयं येनैवप्रकारेण सत्वं तेनैवामत्व येनैवासत्त्व तेनैव सत्त्वमभ्युपमः किं तु स्वरूपद्रव्यक्षेत्रकालभावः सत्त्वं पररूपट्रव्यक्षेत्रकालभावस्त्वसत्व तदा व विरोधावकाश: योगास्तु प्रगल्भन्ते सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थ प्रतिनियमसिद्धः किं तेषामसत्त्वात्मकत्वकल्पनयेति तदसत् यदा हि पटादाभावरूपी घटो न भवति तदो घटो घटादिरेव स्थात् यथा च घटाभावागिन्नत्वाइटस्य घटरूपता तथा पटादेरपि स्थाईटाभावाभिन्नत्वादेव त्यलं विस्तरेगा एवं वाचकमपि शब्दरूपं हयात्मकम् एकात्मकमपि सदनेकमित्यर्थः यद्यकन्यायेन शब्द स्थापि भावाभावात्मकत्वात् अथ वा एकविषयस्यापि वाचकस्याऽनेक विषयत्वोपपत्त: यथा किल घटशब्दः संकेतवशात् पृथबनोदरायाकारवति पदार्थ प्रवर्तते वाचकतया तथा देशकालादापेक्षया तहशादेव पदार्थान्तरेष्वपि च तथा पवर्तमान: केन वार्यते भवन्ति हि वक्तारो योगिनः शगैर प्रति घट इति संकेतानां पुरुषेच्छाधीनतयाऽनियतत्वात् तथा चौरशब्दो ऽन्यत्र तस्करे रूढोऽपि दाक्षिणात्यानामोदने प्रसिद्धः यथा च कुमारशब्दः पवंदेशे अाश्विनमासे रूढ एवं कर्कटौशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका क्षेयाः कालापक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले षड्गुरूशब्देन शतमशोत्यधिकम