________________
११२
स्वादादमञ्जरी ।
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्वं स्यात्स्वरूपस्प्राप्यसंभवः ॥ १ ॥
ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषाम् अर्थानां ज्ञानं सर्वपदार्थ परिच्छेदमन्तरेण तन्निषेधात्मन एकसा वस्तुनो विविक्ततया परिच्छेदासंभवात् आगमोऽप्येवमेव व्यवस्थितः " जे रागं जाणइ से सव्वं जाणइ जे सजाइ से रागं जाणडू " तथा ।
एको भावः सर्वथा येन दृष्ट: सर्वे भावो: सर्वथा तेन दृष्टाः ।
सर्व भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः ॥ १ ॥
ये तु सौगताः परोसत्व नाङ्गीकुर्वते तेषां घटादेः सर्वात्मकत्त्वप्रसङ्गः तथा हि यथा घटस्य स्वरूपा दिनापि त्वं तथा पररूपादिनापि सात्तथा च सति स्वरूपादिसत्त्रवत्पररूपादिसत्यप्रसक्तेः कथं न सर्वात्मकं भवेत् परासत्येन तु प्रतिनियतोऽसौ सिध्यति अथ न नाम नास्ति परासत्त्वं किं तु स्वसत्त्वमेव तदितिचेद हो वैदग्धी न खलु यदेव सत्त्व त - देवासत्त्वं भवितुमर्हति विधिप्रतिषेधरूपतया विरुइधर्माध्यासेनानयोरैक्यायोगात् अथ युष्मत्पचेऽध्येवं विरोधस्तदवस्य एवेतिचेदही वाचाटता देवाना