________________
१०२ स्याहादमञ्जरी। अनेकमेकात्मकमेव वाचं हयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाचलप्तावतावकानां प्रतिभाप्रमादः ॥१४॥
वाच्यमभिधेयं चेतनमचेतनं वस्तु एवकारसपाप्यर्थत्वात् सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनानेकम् अनेकरूपम् अथ वा ऽनेकरूपमपि एकात्मकमन्योन्यसंवलितत्वादित्यमपि व्याख्याने न दोषः तथा वाचकमभिधायकं शब्दरूपं तदप्यवश्यं निश्चितं हयात्मकं सामान्यविशेषोभयात्मकत्त्वात् एकानेकात्मकमित्यर्थः उभयत्र वाच्यलिङ्गत्वेऽप्यव्यतत्वानपंसकत्वम् अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकानेकात्मकत्त्वं निश्चिन्वत्तदेकान्तं व्यवच्चिनत्ति अत उपदर्शितप्रकारादन्यथा सामान्यविशेषैकान्तरूपेण प्रकारेण वाचकवाच्यक्लप्तौ वाच्यवाचकभावकल्पनायाम् अताव कानामत्वदीयानामन्ययूथ्यानां प्रतिभाप्रमादः पत्तास्खलितमित्यक्षरार्थ: अब चाल्पखरत्वेन वाच्चपदस्य प्राग्निपाते पाप्तेऽपि यदादौ वाचकग्रहणं तत्पायोऽर्थपतिपादनस्य श दाधीनत्वेन वाचकस्याय॑त्वज्ञापनार्थं तथा च शाब्दिकाः ।
नसोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शवेन भासते॥