________________
स्याद्वादमञ्जरौ |
१०१
नाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव न च घटादौनां चैतन्यान्व योऽप्यस्ति मृदादान्वयस्यैव तत्र दर्शनात् ततो न किंचिदेतदपि अतोऽनुमानादपि न तत्सिद्धिः किं च पक्ष हेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्ना अभिन्ना वा भेदे द्वैतसिद्धिरभेदे त्वेकरूपतापत्तिः तत्कथमेतेभ्योऽनुमानमात्मानमासादयति यदि च हेतुमन्तरेणापि साध्यसिद्धिः सप्रातर्हि ताप वाङ्मावतः कथं न सिद्धिस्तदुक्तम् ।
हेतोरद्वैतमिद्दिश्चेद् इतं सप्राइ तुसाध्ययोः ॥ हेतुना चेहिना सिद्धि द्वैतं वामात्रतो न किम् । " पुरुष एवेदं सर्वमित्यादेः " सर्वं वै खल्विदं ब्रह्मे"त्यादेश्चागमादपि न तत्सिद्धिस्तस्यापि हताविनाभावित्वेन अद्वैतं प्रति प्रामाण्यासम्भवात् वाच्यवाचकभावलक्षणसत्र द्वैतस्यैव तत्रापि दर्शनात् तदुक्तम् ।
कर्मद्वैतं फलद्द ेतं लोकतं विरुध्यते । विद्याविद्यायं न स्यादन्धमोचद्दयं तथा ॥ ततः कथमागमादपि तत्सिद्धिस्ततो न पुरुषाद्वैतलक्षणमेकमेव प्रमाणस्य विषय इति सुव्यवस्थितः प्रपञ्च इति काव्यार्थः ॥ १३ ॥
अथ साभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थन पुरस्मरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिराम़द्दारेण तेषां प्रतिभावैभवाभावमाह ।