________________
स्याहादमञ्जरी। १०३ इति भावार्थस्त्वे वम् एक तौर्थिकाः सामान्यरूपमेव वाच्यतया अभ्युपगच्छन्ति ते च द्रव्यास्तिकनयानुपातिनो मौमांसकभेद अतवादिनः सांख्याश्च के चिच्च विशेषरूपमेव वाच्यं निद्भवन्ति ते च पर्यायास्तिकनयानुसारिणः सौगता: अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते ते च नैगमनयानुगामिनः काणादा आक्षपादाश्च एतच पक्षत्रयमपि किंचिच्चय॑ते तथा हि मंग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति सामान्यमेव तत्त्वं तत:पृथग्भूतानांविशेषाणामदशनात तथा सर्वमेकमविशेषेण सदितितानाभिधानानुत्तिलिङ्गानुमितसत्ताकत्त्वात् तथा द्रव्यत्रमेव तत्त्वं ततो ऽर्थान्तरभूतानां धर्माधर्माकाशकालपुङ्गलजीवद्रव्यायामनुपलब्धेः किं च यैः सामान्यात् पृथग्भूता अन्योन्यव्यात्यात्मका विशेषाः कलप्यन्ते तेषु विशेषत्वं विद्यते न वा नो चेन्निःस्वभावताप्रसङ्गः स्वरूपस्यैवाभावात् अस्ति चेत्तहि तदेवसामान्यं यतः मामानानां भावः सामान्यं विशेषरूपतया च सर्वेषां तेषामविशेषेण पतौतिः सिद्धव अपि च विशेषाणां व्यात्तिपत्ययहेतुत्वं लक्षणां व्यात्तिनत्यय एव विचार्यमाणो न घटते व्यारत्ति हि विवक्षित पदार्थे इतरपदार्थप्रतिषेधो विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमावपर्यवसायौ कथं पदार्थान्तरप्रतिषेधे प्रगल्भते न च स्वरूपसत्वादन्य त्तत्र किमपि