________________
७६
श्रीमहावीरविज्ञप्ति
"
द्वैरित्वं शिक्षयतीत्यतो व्यंसको दशमः पाशोऽवसातव्य इति । ननु सम्प्रत्यधिका अपि कुपाक्षिका दृश्यन्ते, तत्कथं दशसंख्यानियमः ? इति चेत् । सत्यं सतामप्यधिकानामप्रसिद्धनामत्वादकिञ्चित्करत्वाच्च तदन्तर्भावादतिरिक्ताऽविवक्षणमिति प्रागे'वोपदर्शितमित्यलं विस्तरेणेति काव्यार्थः ॥ इति गतः पाशचन्द्रः । अथोद्दिष्टदस्युदशकं निर्दिश्योपसंहारपुरस्सरमाशीर्वादगर्भि
तकाव्यमाह—
इत्युद्भाव्य निबन्धितानधिकृतान् कक्षाऽम्बरग्राहकान्, दीनान्दीनवान्निरीक्ष्य भगवंस्त्वत् किङ्कराऽस्मत्पुरः । सद्राज्यं निजधर्मसागरशशी स्वीयेषु पीयूषहम्, भुञ्जन्नाऽऽरविचन्द्रमा जय जयिष्वस्मादृशेषु प्रभो ! ||३२||
व्या० - हे भगवन् ! हे प्रभो ! त्वं सद्राज्यम् - धर्मराज्यं, आरविचन्द्र-सूर्यचन्द्रमसौ यावत्, भुञ्जन् पालयन्, आ-सामस्त्येन जय - जीया इत्यन्वयः । किं कृत्वा ? निरीक्ष्य - सन्दृश्य, कान् ? अधिकृतान् इमे वैरिण इति विज्ञप्तिद्वारा ज्ञापनायोद्दिष्टान् किंलक्षणान् ? दीनान् - दीनदशाऽऽपन्नान्, तस्मात् कीदृशान् ? दीनरवान् - कारुण्यजनकजनितशब्दान्, क ? त्वत्किंकराऽस्मत्पुरःतव सेवकानामस्माकं पुरस्तात् । अनेन सेवकपुरो दीनदशापन्नत्वं वैरिणः सेव्यप्रतापवृद्धिरेवेतिन्यायात्प्रभोरतिप्रतापवृद्धिरसूचि । दीनत्वं कुत इति विशेषणद्वारा हेतुमाह यतस्तान् किं लक्षणान् ?, उद्भाव्य निबन्धितान् प्रकटीकृत्य यथापराधं निबद्धान्