________________
द्वात्रिंशिका
भो लोकाः ! किल पश्यत स्फुटमहं सम्प्रस्थितोऽम्मीति वागन्योक्त्या जिन ! शिक्षयंस्त्वदरितां
विश्वोपमान् व्यंसकः ॥३१॥ व्या०–असावित्यध्याहारात् असौ व्यंसकः-पाशचन्द्रनामा धूर्तः साध्वाऽऽभासः, विश्वोपमान् । विशिष्टः श्वा-अस्थिभुक् तेनोपमा येषां ते तान् विश्वोपमान्-महास्थिभुक्सदृशजनान् अन्योक्त्या-स्वात्मदृष्टान्तेन स्वकीयमात्मानं दृष्टान्तीकृत्येतियावत्, त्वद्वैरित्वं शिक्षयन्-शिक्षां ग्राहयन्नस्तीत्यन्वयः। स्वात्मदृष्टान्तमाह-स किंलक्षणः ?, भो लोकाः ! पश्यताऽहं स्वर्गापवर्गाध्वनि स्फुटं यथा स्यात् तथा प्रस्थितोऽस्मि-प्रस्थानं कृतवानस्मीत्यमुना प्रकारेण वाक्-वाणी यस्य स, किं कृत्वा प्रस्थितः ? (तां) जिनाऽऽज्ञाबहिर्भूतामपि निद्रां, कथं ? ससुखं यथेष्टं यथा स्यात् प्रतिसेव्य-आसेव्य, च-पुनः किं कृत्वा ? प्रोच्य-सम्भाष्य, कथमिति। इतीति किं ? जैनसमयेजिनशासने, साधूनां निद्रा-निद्राकरणम् नाऽऽज्ञा, तत्कुतो ? यतस्तत्प्रमाद इत्यक्षरार्थः।
भावार्थस्त्वयं-भो लोकाः ! यूयं पश्यत-साधूनां निद्राकरणं नाऽऽज्ञा । अहं चानाऽऽज्ञाभूतोमपि निद्रां ससुखं प्रतिसेव्य स्वर्गापवर्गमार्गे प्रस्थितोऽस्मीति वचसा स्वात्मनो जिनाऽऽज्ञाखण्डनादेव मुक्तिगामित्वसूचनेनाऽन्येषामपि जिनाऽऽज्ञाखण्डनादेव मुक्त्यवाप्तिर्भविष्यतीति जनेभ्यो ज्ञापयन् दुर्जनजनान् भगव