________________
७४
.
श्रीमहावीरविज्ञप्तिपाश इव पाशः, कस्य ?, तपस्य गिनः-मृगकल्पप्राणिनः, पुनः किलक्षणः ? पूजाऽरि:-पूजाद्वषी, किंवत् ?, प्रतिमाऽरिवत्, लुम्पाकवत्, परं लुम्पाकः प्रकटः प्राकृतजनानामपि ज्ञानगोचरत्वात्, अयं तद्वैपरीत्याद् गुप्तः, परमार्थतो लुम्पाकभ्रातेत्यर्थः। किं कुर्वन् ?, आदिशन-मूर्खजनेभ्य आज्ञापयन्-जनेलोके मिथ्यादुष्कृतं, क्व ? पूजावसाने पूजाप्रान्ते इत्यक्षरार्थः। ___ भावार्थस्त्वयं-जिनपूजा श्रावकेण कर्तव्येत्येवंरूपेण विधिवादरूपो जिनोपदेशो न भवतीति पाशचन्द्रकुविकल्पनं । तच्चाsत्यन्तमसङ्गतं। यतः पूजा दर्शनाऽऽचाररूपा, दर्शनं च सम्यक्त्वं, तच्च संवररूपमेव । उक्तं च-"पंच संवरदारा पं० तं० सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं”ति श्री स्थानांगे। एतद्वृत्त्येकदेशो यथा-तथा संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराण्युपायाः संवरद्वाराणि मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनाद्वाच्या इति । तस्य च जिनोपदेश एव। एवं प्रासादप्रतिमादावप्यवगन्तव्यम्। शेषं सुगममिति काव्यार्थः।।
अथ स्वात्मानं दृष्टान्तीकृत्याऽन्येषामपि भगवद्वैरित्वं शिक्षयतीत्याविष्कुर्वन् द्वितीयकाव्यमाहनिद्रा साधुजनस्य जैनसमये नाऽऽज्ञा प्रमादो यतः, प्रोच्येति प्रतिसेव्य तां च ससुखं स्वर्गापवर्गाध्वनि ।