________________
द्वात्रिंशिका
अधिकारात्तदभिप्रायमाविष्कृत्याऽऽगमिकयुक्तिभिस्तत्तिरस्कारद्वारा निरुत्तरीकृतान् । अन्येऽपि प्रकटीकृत्य निबद्धा वैरिणो दीना एव भवन्ति, तथाऽमी अपि। उद्भाव्य निबन्धनं कुत इति विशेषणद्वारा हेतुमाह-यतस्तान किंलक्षणान् ? कक्षाऽम्बरग्राहकान् । कक्षेवनेऽधिकारात् सुसाधुसङ्गविरहात्मके अम्बरं-वस्त्रं, तच्च सम्यक्त्वात्मकं गृह्णन्तीति कक्षाऽम्बरग्राहकास्तान् । अन्येऽपि तथाभूता निबध्यन्त एव, तथाऽमी अपि । सेवकसाध्यवैरिनिग्रहेषु सेवकेषुस्वामी सौम्यदृष्टिरेव भवतीति दर्शयति, त्वं किंलक्षणः ? जयिषु-प्रभुप्रतापद्वारा जयशीलेषु, स्वीयेषु-निजसेवकेषु अस्माहशेषु, पीयूषग-हितकारित्वेन पीयूषवदमृतवद् दृशौ लोचने यस्य स । अन्योऽपि राजा जयिषु सेवकेषु सौम्यग, तथा त्वमपि । अनेन स्तुतिकर्तरि प्रभोरतिप्रसन्नता दर्शिता । पुनः किंलक्षणः ? निजधर्मसागरशशी, निजः-स्वीयो यो दानादिभेदभिन्नश्चतु
र्दा धर्मस्तद्पो यः सागरः-समुद्रस्तत्र वृद्धिकारित्वेन शशीवचंद्रवत् निजधर्मसागरशशी। अन्योऽपि राजा निजधर्मा न्यायादयस्तद्रूपो यः समुद्रस्तत्र चंद्रवत् वृद्धिकारी भवतीति । अत्र धर्मसागरेति स्तुतिकर्नामाप्यसूचि । यद्वा निजः-सेवकत्वेन स्वकीयो यो धर्मसागरः स्तुतिकर्ता तस्याऽऽनन्दकारित्वेन शशीवेति काव्यार्थः ।। इति श्रीविजयदानसूरीश्वरशिष्योपाध्याय-श्रीधर्मसागरगणिविरचितश्रीमहावीरविज्ञप्तिद्वात्रिंशिकावृत्तिः समाप्ता ।।.
श्रीमत्तपागणनभोऽङगणनव्यभानुश्रीसूरिराड् विजयदानगुरुक्रमाब्जम् ।