________________
द्वात्रिंशिका
५६
श्च शब्दा गुरुप्रभुरणास्तेषामनध्वा श्रवसी यस्य । यद्वा गुरुप्रभवो - गीतार्था गुरवस्तेषां रणः - शब्दस्तस्याऽमार्गः कर्णौ यस्य स, सद्गुरुवचनसूच्यविद्धकर्ण इत्यर्थः । इत्यक्षरार्थः ।
भावार्थस्त्वयं- "भूए अत्थि भविस्संति केइ तेलुक्कन मिअकमजुअल"त्ति वचनात् अस्मिन् भरतक्षेत्रे दुप्पसहं यावत् त्रैलोक्यनमस्कृतक्रमयुगलानां साधूनां सदैव सद्भावेऽपि नहीदानीं साधवोऽस्मदुग्गोचरीभवन्तीति वदन् निर्गुरुत्वेन जात्यन्धपुरुषवत् स्वपृष्ठि विलग्नानां महासङ्कटपातहेतुत्वेन कटुक इत्यनिष्टनामा युक्त एवेति काव्यार्थः ॥
अथोत्सूत्रभाषिणस्तावत्प्रायो ऽनन्तानुबन्धिमायोदयिन एव भवन्तीति द्वितीयकाव्येन मायित्वमाह -
पापात्मा प्रतिमा तामभिनमस्कार्याऽथ पूज्या च तत् प्रोच्याऽपि प्रतिपक्षतामभिदधन्मायाविमुख्यः क्षितौ । यद्यद्धर्ममवाप्यमुक्तिपदवीवीथी भवेत्पूजिता, तं धर्म प्रतिषेधयत्यधिपते ! साधुप्रतिष्ठात्मकम् ॥२८॥ व्या०- - हे अधिपते ! तत्तस्मात्कारणात् पापात्मा कटुकः क्षिती - पृथिव्यां मायाविमुख्यो- मायाशीलशेखरो मन्तव्य इत्यध्याहार्यः इत्यन्वयः। मायाविमुख्यः किं कुर्वन् ? अर्हतां प्रतिमा नमस्कार्याऽथ च पूज्या, इतिर्गम्य इत्यमुना प्रकारेण प्रोच्याऽपि - भाषित्वाऽपि प्रतिपक्षतां तद्वैपरीत्यमभिधन्-बाणः । मायावित्वं दर्शयति तस्मात् कुतः ? यद्यस्मात् यद्धमं यश्चासौ
अथ
9