________________
श्रीमहावीरविज्ञप्ति
५८
ही हीनो गुरुणा गुरुप्रभुरणानध्वश्रवास्साश्रवा, साधुश्रेणिरिति प्रकल्पितमतिः सम्प्रत्यसावीक्ष्यते । दुर्लक्ष्या क्षितिमण्डले कटुफलैकासक्तिसेव्यः कटुयुक्तस्तीर्थमार्द्धमक्षिविषयं दुर्वावदन्नल्पधीः ||२७||
व्या०-हीति खेदे । सम्प्रति वर्तमानकालेऽसावध्यक्ष सिद्धो गूर्जरावनिप्रभृतिषु दृश्यमाना साधुश्रेणिः साश्रवा-साधुगुणरहिता, ईक्ष्यते - दृश्यते, इत्यमुना प्रकारेण प्रकल्पितमतिः कटुःकटुक इत्यनिष्टनामा युक्त इत्यन्वयः । किंलक्षणः ? क्षितिमण्डले कटुफलेकासक्तिसेव्यः । कटुफलानि नरकादिगति वेद्यदुष्कर्मजन्यदुःखानि, तेष्वेवैका - अद्वितीया आसक्तिः - कारणानुमेया लुब्धता येषां ते कटुकफलैकासक्तयस्तैः सेव्यः सेवनार्हः, पुनः किंलक्षणः, ? दुर्लक्ष्मा - दुष्टलक्षणधरः पुनः किंलक्षणः ? अल्प धीर्बुद्धिविकलः, किं कुर्वन् ? दुर्वावदन्- मूर्खपर्षदि कुत्सितं भृशं वदन्, किं ? तीर्थ- साधुसाध्वीश्रावक श्राविकालक्षणं, कीदृशम् ? अपार्द्ध- अपगतं अर्द्ध साधुसाध्वीलक्षणं यस्मात्तदेवंविधमक्षिविषय - इन्द्रियगोचरमिति एवं दुर्वावदन् कुत इति विशेषणद्वारा हेतुमाह यतः स किंलक्षणः ? गुरुणा हीनः - गुरुरहितः अनुपासितगुरुकुलविज्ञान इत्यर्थः । गुरुहीनोऽपि कुत इति विशेषणद्वारा हेतुमाह यतः स किंलक्षणः, ? गुरुप्रभुस्तीर्थकृत् तस्य रणःशब्दो द्वादशाङ्गीरूपप्रवचनं तस्यानध्वा - अपथः श्रवसी - श्रोत्रे यस्य । यद्वा गुरौ - गुरुतत्त्वप्रसाधने प्रभवः समर्थास्ते च ते रणा