________________
द्वात्रिंशिका
धारित्वात् न जैनवेषी न वा शैववेषी, किन्तु नरशरीरावयवशिरःपाण्यादिम भूप्रदेशवद्बिभत्सवेषधारित्वात् दुर्वेषी, जैनप्रवचनपराङ्मुखत्वात् विमुखी, लुम्पाक इति नामश्रवणादेव लोकानामप्रीतिसम्भवान्नाम्नापि निन्द्यश्रुतिः चेत्-यदीहाऽपेर्व्यवहितसम्बन्धात् इहापि - इहलोकेऽपि तव प्रवचनादर्थादन्यथा प्ररूपणात् प्रायः प्राकृतसंस्कृताऽशनरतिः । प्रायो - बाहुल्येन, प्राकृताः - रजकादयस्तैः संस्कृतं निष्पादितं राद्धमितियावत् । यदशनादिस्तत्र भोज्यत्वेन रतिर्यस्य स, निन्द्यकुलभिक्षाटनलम्पष्ट इत्यर्थः । तथा स्त्रीवस्त्रवाष्पानकृत् । स्त्रीणां वस्त्राणि - शाटकतदान्तर पटकञ्चुकादीनि तेषां वाः पानीयं प्रक्षालनजलं स्त्रीवस्त्रमलाविलजलमित्यर्थः । तस्य पानं करोतीति पानकृत् पापीत्यर्थः । तथा व्युच्छिष्टान्नविगानवान् । व्युच्छिष्टं-भुक्तावशिष्टं अर्द्धभुक्तपरित्यक्तान्नं वाऽनेन हेतुभूतेन विगानवान्लोकनिन्दनीयो नाऽभविष्यत्, कस्तर्हि फलेक्षणपरो ऐहिकपारत्रिकफलविलोकनतत्परो, धर्माधर्मफल्ममुत्र-परलोकेऽद्राक्षीदित्यन्वयमुखेनैवाक्षरार्थः ।
भावार्थस्वयं हे अर्हन् ! यद्ययमिहलोक एव निन्दितान्नपानादिनैव क्लृप्तकवृत्तिर्नाभविष्यत्तर्हि परलोकेsपि धर्माधर्मफलं कोऽद्राक्षीत् दृष्टाऽभविप्यन्न कोऽपीति काव्यार्थः ॥ इति गतो लुम्पाकः ॥
अथ काव्यद्वयेन कटुकमतमा विश्चिकीर्षुर्निर्गुरुत्व फलोपदर्शकं काव्यमाह—
५७