________________
श्रीमहावीरविज्ञप्तिवज्रसम्बन्धिनी, पेटेव-मञ्जूषेव, कस्य ?, उन्मुद्रीकरणोद्यतस्य । उन्मुद्रीकरणमुद्घाटनं तत्रोद्यतस्य, कैः कृत्वा ?, रदैः-दन्तैः, पेटा किंलक्षणा ?, महामुद्राङ्किता । महामुद्रा-वज्रतालकं तयाङिकता-चिह्नीकृता दत्ततालकेत्यर्थ इत्यक्षरार्थः । भावार्थस्त्वयं यथा प्रतिताल्या बहुपरिचितमर्मज्ञैरपि दुरुद्घाट्या महामुद्राङ्किता वनमयी पेटा दन्तैरुद्घाटयितुमुद्यतस्य दन्तपातहेतुर्भवत्येव, तथा तव प्रवचनमपि बहुपरिचितव्याकरण-साहित्य-तर्क-ज्योतिष्काद्यनेकग्रन्थाभ्यासपरिकर्मितमेधानां पुरस्कृतगुरुक्रमनियुक्तिवृत्त्याद्याम्नायानां विदुषामपि दुरधिगम्यं स्वकृतमतिकल्पनया व्याख्यानयितुर्लुम्पाकस्य इहलोके विद्वत्पर्षदि पार्षद्यैर्दन्तपातो विधीयते एव । परलोके च तत्प्रवचनं नरकादिपातहेतुरिति । एवं गुरुक्रमादिशून्यानां शून्यचित्तानामन्येषामपि स्वधिया व्याख्यानोद्यतानामियमेव गतिर्बोध्येतिकाव्यार्थः ।
अथ प्रवचनार्थस्यान्यथा प्ररूपणादैहिकफलोपदर्शनद्वारा पारत्रिकफलमुपदर्शयन् काव्यमाहप्रायः प्राकृतसंस्कृताशनरतिः स्त्रोवस्त्रवाष्पानकृद्, व्युच्छिष्टान्नविगानवानगपहन्नाम्नापि निन्द्यश्रुतिः। दुर्वेषी विमुखीह ते प्रवचनाच्चेन्नाऽभविष्यद् द्विषन्, धर्माऽधर्मफलं फलेक्षणपरोऽद्राक्षीदमुत्रापि कः ? ॥ २६॥ . व्या०-हे अगपहृत् !, अगपो-मेरुस्तद्वदकम्प्यं हृद् यस्य स अगपहृद् तस्य सम्बोधनं हे अगपहृत् ! दुर्वेषी-जैनवेषांश