________________
६०
श्रीमहावीरविज्ञप्ति
धर्मश्च यद्धर्मस्तं, अवाप्य प्राप्य, पूजिता प्रतिमा मुक्तिपदवीवीथी भवेत् - मोक्षपदमार्गः स्यात् तं धर्मं साधुप्रतिष्ठात्मकं प्रतिषेधयति प्रतिषेधं करोतीति णिविधानात् प्रतिषेधयतीति बोध्यं । अन्यथा भ्वादिगणात प्रतिषेधतीत्येव स्यादित्यक्षरार्थः ।
भावार्थस्वयं कटुकेन जिनप्रतिमायास्तावदाराध्यत्वं वचो - मात्रेण स्वीकृतम्, परं यं धर्मं पुरस्कृत्य सा पूजार्हा भवति, स साधुप्रतिष्ठात्मको धर्मो नाङ्गीकृतोऽतोऽन्तर्वृत्या न पूज्येति श्रद्धानान्मायावीति । यत्र कुपाक्षिकतिलकस्तिलकाचार्यः स्वाभिनिवेशात् श्रावकप्रतिष्ठाव्यवस्थापनाय स्वकपोलकल्पिते प्रतिष्ठाकल्पे भूतात्त इव यत्तत्प्रलपन् जिनबिम्बप्रतिष्ठा श्रावणैव कर्त्तव्या द्रव्यस्तवरूपत्वात् सावद्यत्वादेवेत्याद्यनुमानादिकं प्रकल्पितवान्, तन्न युक्तं । तत्रानुमानस्य तावत्पक्षधर्मतादिप्राणवियुक्तत्वेन निर्जीव कलेवर इवेप्सितार्थसाधकत्वाभावात् ।
ननु पक्षधर्मतादिराहित्यं कथमितिचेत्, उच्यते- जिनबिम्बप्रतिष्ठा श्रावकेणैव कर्त्तव्या द्रव्यस्तवरूपत्वादित्यत्र प्रतिष्ठाया द्रव्यस्तवत्वाऽभावेन शब्दाऽवृत्तिचाक्षुषत्वादिहेतुरिव हेतुः स्वरूपाऽसिद्धः । प्रयोगो यथा - प्रतिष्ठा न द्रव्यस्तवः, प्रतिष्ठाप्यविषयक क्रियाविशेषत्वात् प्रतिष्ठा हेतुभूत क्रियात्वाद्वा प्रतिष्ठाव्यप्रतिमाया नेत्राद्याकार निर्मापणवत् । व्यतिरेके च प्रतिष्ठितप्रतिमाविषयक पूजाभिप्रायपुरस्सरपुष्पाद्यारोहणं । किंच-द्रव्यस्तवाऽनर्हत्वमप्यप्रतिष्ठितप्रतिमायाः उक्तं च - “ शरीरमिव निर्जीवं, निर्विद्य इव सत्सुतः । निर्नेत्रमिव सद्वक्त्रं, निष्पुत्रमिव