________________
श्रीमहावीरविज्ञप्ति
कुकर्मात्मनां - उत्सूत्रभाषणादिना कुत्सितं कर्म येषां ते एवंविधा ये आत्मानः प्राणिनस्तेषां काम्यः प्रीतिकारी । पुनः किंलक्षणः ? कोपदहनः- उत्सूत्रभाषिणां हि क्रोधादयोऽनन्तानुबन्धिन एवोदयप्राप्ता भवन्ति, तस्मात् कोपोऽप्यनन्तानुवन्धी क्रोधस्तेन दहन sa अग्निरिव कोपदहनोऽतः कोप्य इति काव्यार्थः ।
५०
अथातिदेशेन तिरस्कृतस्याप्यागमिकस्याऽस्य चित्रकारिचरित्रमाविष्कुर्वन् काव्यमाह - सामंश्चित्रकृदश्रुतं तव रिपोरेकं चरित्रं श्रृणु, त्वत्तीर्थस्य नमस्कृतिं च वचसा स्वीकृत्य तन्मध्यगा | नस्तुत्या श्रुतदेवतेति वदति श्रुत्वापि तत्सन्निधेरौन्नत्यं जिनशासनस्य सततं श्री हेमचन्द्रादितः ॥ २१ ॥ व्या० - हे स्वामिन् ! तव रिपोरागमिकस्यैकमश्रुतं चित्रकृद्आश्चर्यकृच्चरित्रं श्रणु इत्यन्वयः सुगमः । तच्चरित्रं किं ? 'नमो तित्थस्स' त्तिवचनात् त्वत्तीर्थस्य द्वादशाङ्गीरूपप्रवचनाधारस्य, साध्वादिसमुदायस्य, नमस्कृति प्रणामं, स्वीकृत्य - चोऽप्यर्थे, अङगीकृत्यापि, तन्मध्यगा तीर्थान्तर्वर्त्तिनी श्रुतदेवता न स्तुत्यास्तवनार्हा न भवतीति वदति । किं कृत्वा ?, श्रुत्वापि, किं ?, जिनशासनस्योन्नत्यं - शासनप्रभावनां, कुतः ?; श्री हेमचन्द्रादित:श्री हेमचन्द्रसूरिस्त्रिकोटीग्रन्थकर्ता श्रीकुमारपालप्रतिबोधकृत् स आदिर्यस्य, आदिशब्दात् नवाङ्गीवृत्तिकारकश्री अभयदेक्स्रियो प्रायाः । सततं किंलक्षणात् ?; तत्सन्निवेः साश्रुत