________________
द्वात्रिंशिका
४६ अथ पूर्वार्द्धन सार्द्धपूर्णिमीयकमतमुत्तरार्द्धन त्रिस्तुतिकमतमतिदेशेन दूषयितु काव्यमाहप्रायस्तुल्यकदाग्रही शरमितश्चक्षुर्मितेन प्रभो !, सभ्यान्तस्तदयं पुरस्तव तिरस्कार्यस्त्वनार्यप्रभुः । तद्वत्रिस्तुतिकोऽपि कोपदहनः काम्यः कुकर्मात्मनां, कोप्यस्त्वद्वचनामृतकरसिकै खातिबाह्यो यतः ॥ २० ॥
व्या०-हे प्रभो ! 'यत्तदोनित्याभिसम्बन्धात्' यस्मात् शरमितः-उद्दिष्टेषु पञ्चमः सार्द्धपूर्णिमीयकः, प्रायो-बाहुल्येन, चक्षुमितेन-तद्वितीयेन पूर्णिमीयकेन, तुल्यकदाग्रही-समानाभिनिवेशिकः, तत्तस्मात् अयं सार्द्धपूर्णिमीयकः अनार्यप्रभुः, अनार्याआज्ञाविकलधर्मकारिणस्तेषां प्रभुः-स्वामी तव पुरस्तात् सभ्यान्तः-सभ्यमध्ये, तिरस्कार्यः, तुरेवार्थ, तिरस्कार्य एवेत्यन्वयमुखेनैवाक्षरार्थः। ___ भावार्थस्त्वयं-सार्द्धपूर्णिमीयकः पूर्णिमापाक्षिकादिप्ररूपणया प्रायः पूर्णिमीयकतुल्यः। प्रायोग्रहणात् कर्पूरवासक्षेपादिपूजानिषेधादिनाऽधिकोऽपि । तत्तस्मात्तव पुरस्तिरस्कार्य एवेति पूर्वाद्धं । इति गतः सार्द्ध पूर्णिमीयकः । तथा हे प्रभो! तस्मात्तत्यूर्णिमीयकवत् त्रिस्तुतिकोप्यागमिकोऽपि त्वद्वचनामृतकरसिकैःतवाज्ञापरायणः कोप्य-अनिष्टविषादिवत् त्याज्य इत्यन्वयः। तस्मात् कुतो?यस्माद् बाह्यातिबाह्यः। संघबाह्यो-राकारक्तः, ततो बाह्योऽश्चलस्ततोऽप्ययं बाह्योऽतो बाह्यातिबाह्यः। किंलक्षणः सः?,