________________
४८
श्रीमहावीरविज्ञप्ति
कण्ठे पाशमधीश ! पश्य पुरतः कुर्वन्नुपादाय वै, षड्जीवेष्घृणो घृणास्पदमसौ स्यात्ते कथं संवरेट् ! ॥ १६ ॥
व्या०-हे जिनपते ! हे अधीश ! हे संवरेट् ! - संवरराज ! त्वं पश्य-असावञ्चलः आवश्यकभूपति-प्रतिक्रमणनृपर्ति, हत्वाविनाश्य, तस्यावश्यकस्य कण्ठस्तत्कण्ठस्तस्मिन् हारोपमं सुसूत्र - गुणप्रोतमुक्ताफलश्रेणिरचितभूषणकल्पं, द्विः सङ्ख्यानियममुपादाय - गृहीत्वा सत्संवरैकात्मनः -शोभनसंवरैकस्वरूपस्य समत्वनृपतेः- सामायिकभूपतेः, कण्ठे पाशं - गलबन्धनं कुर्वन् षड्जीवेषुपृथिव्यादिषड्जीवनिकायेषु अघृणो- निर्दयः, ते तव पुरस्तात्कथं घृणास्पदं-करुणास्थानं, न कथमपीत्यन्वय मुखेनैवाक्षरार्थः ।
भावार्थस्त्वयं-प्रतिकमणं तावद्दिवारात्रिसम्बन्धिप्रायश्चित्तानुष्ठानं । तत्र च यथा 'यथापराधं दण्डो न्याय' इति वचनात् द्विः सङ्ख्यानियमो युक्तः, अन्यथा प्रायश्चित्तानैयत्येन प्रवचनव्यवस्थाविप्लवः प्रसज्येत । सामायिकं पुनः संवररूपक्रिया, तत्र च सङ्ख्यानियमो न युक्तः इति सम्यग् वस्तुस्वरूपापरिज्ञानादभिनिवेशाच्च श्राद्धानां प्रतिकमणं न युक्तमित्यावश्यक - भूपतिं विनाश्य तत्कण्ठे हारोपमं तदीयमेव द्विः सङ्ख्यानियम:श्राद्धैः सामायिकमेव विधेयं, तदपि द्विवारमिति, संवररूपस्य सामायिकभूपतेः कण्ठे पाशं कुर्वन्नसावञ्चलिकः षड्जीवेषु निर्दयस्तस्माच्च तथाविधयोग्यता सद्भावात्तव पुरस्तान्न करुणास्पदं, उपलक्षणात् संवररूपस्य पौषधस्यापि चतुष्पव्या नियमयन् गलपाशिको बोध्य इति काव्यार्थः । इति गतोऽञ्चलः ॥