________________
द्वात्रिंशिका
व्या० - हे आप्तप्रभो - जिनपते ! किञ्चेति दूषणाभ्युच्चये । स्वात्मानं निलयिनो - गृहस्थस्य, तुलां - समतामारोपयता तेननिकेन दुधिया दुर्बुद्धिना, निजे गले स्वकीये कण्ठे, स्वयंस्वयमेव दृढतरोऽति निबिडः, पाशो- बन्धनमानायि-आनीत
इत्यन्वयः । तत्र गृहस्थतुल्यता कुतः ?, धान्याऽऽहार - जलोपचारशुचिता वस्त्रावृतावाच्य - पन्न्यासार्हन्नति - जैनशासनमतिश्रदूधान-सद्ध्यानतः । धान्याहारश्च प्रतीतः, जलोपचारशुचिता च-जलस्योपचारेण आहारनीहारादिक्रियाविधिलोकप्रसिद्धव्यापारेण, शुचिता - पावित्र्यं वस्त्रावृताऽवाच्यं च वस्त्रेणावृतमाच्छादितमवाच्यं लिङ्गोपस्थादि, पन्न्यासश्च चरणन्यसनं, अर्हन्नतिश्च-तीर्थकरनमस्कारः जैनशासनमतिश्रद्धाने च । मतिश्च श्रद्धानं च मतिश्रद्धाने, जैनशासने मतिश्रद्धाने, सद्ध्यानं च-धर्मध्यानादिध्यानमिति समाहारद्वन्द्वस्तत इत्यक्षरार्थः ।
"
४७
भावार्थस्त्वयं-यदि मुखपोतिकाग्रहणमात्रेणापि श्रद्धालोः साधुसाम्यं स्यात् तर्हि धान्याहारादिभिः साधोरपि श्रद्धालुसाम्यं भवत् केन वार्यं ? न्यायस्योभयत्र समानत्वात् । तथाचात्मनो गृहस्थ तुल्यतां मन्वानोऽञ्चलः कथं ( न ) मूढानामपि गुरुरिति स्वगलपाशाऽऽनयनमिति काव्यार्थः ॥
अथ तस्य निर्दयत्वमाविष्कुर्वन्नाहहत्वाssवश्यकभूपतिं जिनपते ! तत्कण्ठहारोपमं ! द्विः सङ्ख्यानियमं समत्वनृपतेस्सत्संवरैकात्मनः ।