________________
श्रीमहावीरविज्ञप्ति
क्रियासाधकतमत्वेन श्रद्धालूनामपि रजोहरण-मुखवस्त्रिका ग्रहणं युक्तमेव । उक्तं चागमे
" से किं तं लोउत्तरिअं भावावस्सयं ?, २ जं णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्भवसिए तदज्झवसाणे तदट्ठोवउत्ते तदप्पिकरणे अण्णत्थ कत्थइ मणं अकुणमाणो उभओ कालं आवस्सयं करेंति”त्ति अनुयोगद्वारसूत्रम् । एतद्वृत्त्येकदेशो यथा - ' तदर्पितकरणः ' करणानि तत्साधकतमानि देह - रजोहरण-मुखवस्त्रिकादीनि, तस्मिन्नावश्यके यथोचितव्यापार नियोगेनार्पितानि नियुक्तानि तानि येन स सर्वथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः । तथा " तस्साहणे जाणि सरीररजोहरणमुहणंतगादिआणि दव्वाणि ताणि किरिआकरणत्तणओ अप्पिआणि "त्ति । अनुयोगचूर्णिः । तद्ग्रहणं चानेनाभिने वेशात्प्रतिषेधयतोऽन्येषामपि द्वैरत्वेन सम्मत इति काव्यार्थः ॥
"
४६
अथ साधूपात्तत्वेन श्रंद्धालोर्मुखवस्त्रिकादित्याजनेन न्यायस्य समानत्वात् तदुद्वैपरीत्यस्यापि कल्पनाप्रसङ्गेन स्वगलपाशंदिदर्शयिषुर्द्वितीय काव्यमाह -
किञ्चारोपयता तुलां निलयिनः स्वात्मानमाप्तप्रभो ! तेनाssनायि निजे गले दृढतरः पाशः स्वयं दुधिया । धान्याऽऽहारजलोपचारशुचिता वस्त्रावृताऽवाच्यपन्यासार्हन्नति - जैनशासनमतिश्रद्धानसद्ध्यानतः ॥ १८॥