________________
द्वात्रिंशिका
४५
वस्तुविस्तर विभुज्ञानिन् ! किञ्चिद्धर्मवशेनानन्तधर्मात्मके वस्तुनि विवक्षितैकतरो धर्मः किञ्चिद्धर्मस्तद्वशेन तत्पारतन्त्र्येणाऽन्योन्यं - परस्परेण साधर्म्यवैधर्म्यभाग साधम्यं च समता, वैधम्यं च - विषमता ते भजते - आश्रयते इति साधर्म्यवैधर्म्यभाग, एवंविधं निखिलं - सम्पूर्णं, वस्तु आत्मादिपदार्थसार्थरूपं अजानन्नावगच्छन्, यत्तदोर्नित्याभिसम्बन्धात् यस्मान्मुखवस्त्रिका ग्रहणतः श्रद्धालुः-श्रावकः, साधुलिङ्गी स्यात्ततस्तस्मात्तत् मुखपोतिकाग्रहणं श्रद्धालूनां नो युक्तं - नोचितमित्यमुना प्रकारेण कल्पनपरःकुविकल्पनाssसक्तोऽयमध्यक्षोऽञ्चलः पापात्मराट्-अधर्मिशेखरो, विश्रुतः- प्रायः सर्वजनप्रतीतः इत्यन्वयमुखेनैवाक्षरार्थः ।
भावार्थस्त्वयम् - हे सर्वज्ञ ! समस्तवस्तूनामन्योऽन्यं साधम्यं वैधम्यं च प्रतीतमेव । तथाहि द्रव्यत्वादिधर्मो घटपटयोः साधम्यं, वैधम्यं च मृन्मयत्वतन्तुमयत्वादिधर्मः । एवमात्माकाशादीनाममूर्तत्वादिधर्मैः साधम्यं, वैधर्म्यं च चैतन्याचैत - न्यादिधर्मेरित्यादि स्वधिया बोध्यम् (यथा ) तत्र केवलं न साधर्म्यसूचकधर्मै रेवोभयोरैक्यमापद्यते, भिन्नत्वसूचकानामपि धर्माणां विद्यमानत्वात् । तथा मुखवस्त्रिकाग्रहणमात्रेणापि न साधु लिङगता, श्रद्धालोभिन्नत्वसूचकानामपि धर्माणां विद्यमानत्वात् श्रद्धालोर्भिन्नत्वसूचकविरुद्धनेपथ्याऽऽहारादिविधेर्लोकप्रतीतत्वात् । यदि साधूपात्तत्वमात्रेण परित्यागो युक्तस्तर्हि धान्याहार पादविहार - जलपान वस्त्रपरिधान-तत्त्वश्रद्धान-नमस्कारादिजापादेः परित्यागं प्रसज्येत । तस्मादावश्यकादि
-