________________
४४
श्रीमहावीरविज्ञप्तिशब्दस्यापि (स्येहापि) सम्बन्धात् इव भूपाज्ञापरिपन्थिनो-राजाज्ञापरिपन्थिनो राजाज्ञावैरिणोऽलमत्यर्थं अटवीस्तेना-राजविरोधिनो वनवासिन-श्चौरास्तेषामेका-अद्वितीया, निश्रा-शरणं तस्य श्रमः-प्रयासः कृतिरिति यावत्, स इवेत्यक्षरार्थः।
भावार्थस्त्वयम्-मरणाभिलाषुकस्य पीयूषद्विषतो विषभक्षणमिव पञ्चनदीसाधनं राजाज्ञावैरिणश्चौरशरणकरणमिव मिथ्यादृगव्यन्तरीविशेषचामुण्डिकाराधनं तव वैरिणश्चामुण्डिकाराधनाल्लोकदत्तचामुण्डिकनाम्नः खरतराऽपरपर्यायस्य युक्तमेव । भगवति खेदाभावेप्यन्यत्र तथादर्शनात् स्वरूपयोग्यतया युक्तैव खेदाकरणविज्ञप्तिरिति काव्यार्थः ।। इति गतः खरतरः ।।
अथ काव्यत्रयेणाञ्चलमतं दूषयितं प्रथमकाव्येनाऽज्ञानोद्भावनामाह - किश्चिद्धर्मवशेन वस्तु निखिलं साधर्म्यवैधर्म्यभा-, गन्योऽन्यं प्रतिवस्तुविस्तरविभुज्ञानिन्नजानन्नयम् । श्रद्धालुर्मुखवस्त्रिकाग्रहणतः स्यात्साधुलिङ्गी ततो, नो युक्तं तदिति प्रकल्पनपरः पापात्मराड् विश्रुतः ॥१७॥ ___ व्या०-हे प्रतिवस्तुविस्तरविभुज्ञानिन् । प्रतिवस्तुविस्तरंवस्तु २ प्रत्यनन्तपर्यायविषयकं, विभु च-द्रव्यपर्यायाभ्यां निखिलविषयत्वेन व्यापकं, तञ्च तत् ज्ञानं च तद्विद्यते यस्य स प्रतिवस्तुविस्तरविभुज्ञानी सर्वज्ञ इत्यर्थः । तस्य सम्बोधनं हे प्रति