________________
द्वात्रिंशिका
४३.
भावार्थस्वयं तेन शठेनाल्पकालीनेऽपि सामायिके यावजीवाधिकचारित्रदृष्टान्तेन त्रिरुच्चारः स्वीकृतो, न पुनर्नन्द्यादि विधिपूर्वकत्वं तथा सामायिकापेक्षया बहुकालीनेप्युपवासादिप्रत्याख्याने न त्रिरुच्चारो नापि नन्दिरिति महाज्ञानाऽऽवृतलोचनोऽसौ कौशिकादित्यदृष्टान्तेन प्रकाशमाश्रित्य भगवदसाध्य इति काव्यार्थः ॥
अथ यो यत्प्रतिपक्षः स तत्प्रतिपक्षानुकूल इति न्यायात् लौकिकमिध्यात्वमप्यस्य युक्तमेवेति दर्शनाय षष्ठं काव्यमाहपीयूषद्विषतो विषादनमिव प्रीताशुमृत्योः पुनर्भृपाज्ञापरिपन्थिनोऽलमटवी स्तेनैकनिश्राश्रमः । नद्याः साधनमस्य चाधममतेश्वामुण्डिकाराधनं, ' युक्तं त्वेव तवाहितस्य हितकृत् ! खेदं वृथा मा कृथाः १५
व्या० - हे हितकृत् - हितकारिन् ! त्वं वृथा - मुधा खेदं मा कृथाः, मादृशेऽपि प्रभौ विद्यमाने नदीचामुण्डिकाद्याराधनं कथं करोत्यसावित्येवंरूपेण परविषयकं दुःखं मा कार्षीरित्यन्वयः । खेदः कुतो न विधेयः ?, हि यस्मात् अस्यौष्ट्रिकस्याधममते:निन्द्यकृत्यकारित्वेन हीनधियः, तवाहितस्य त्वद्वरिणो, नद्याः साधनं-पञ्चनदीसाधनं युक्तमेव । किमिव ?, प्रीताशुमृत्योः, प्रीती - वल्लभः, आशुमृत्युः शीघ्रं मरणं यस्य स तस्य पीयूषद्विषतोऽमृतपानवैरिणो, विषादनमिव विषभक्षणमिव तथा पुनश्चामुण्डिकाराधनं, अपेर्गम्यत्वात्तदाराधनमपि तस्य युक्तमेव, इव
"