________________
४२
श्रीमहावीरविज्ञप्ति
व्या०-हे विभो ! तत्-तस्मात्-स खरतरः अनुकम्प्यो - ऽनुकम्पार्हः, कथं स्यान्न कथमपीत्यन्वयः । तत्कुतो ? यद्यस्मात् हे देव ! दिवाकरद्युतिततिः - आदित्यांशुश्रेणिः, पेचकंकौशिकं घूकमिति यावत् । किं कुर्वीत समस्तजीवलोकं प्रकाशयन्नपि तथाविधजातिदोषदूषितं कौशिककुलं प्रकाशमाश्रित्य ? न किमपि कुर्यात् प्रत्युतान्धीकुर्यादित्यर्थः । न चैतावता भगवतो दूषणं । उक्तं च श्रीसिद्धसेनदिवाकरपादैः"सद्धर्म बीजवपनानघ कौशलस्य,
यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु,
सूर्या शवो मधुकरीचरणावदाता " || इति । स किम्भूतः ? हे जनेति लोकसम्बोधने। आयुः पर्यवसायिनो - यावज्जीवावधिका ये पञ्च यमा - महाव्रतानि, उपलक्षणत्वात्तथाविधानुव्रतान्यपि ग्राह्याणि । त इव तद्वत्, सामायिके घटिकाद्वयमात्रकालावधिकसंवर विशेषे उपलक्षणादेकदिनावधिकसंवर विशेषे पौषधेऽपि, त्रिदण्डकोच्चारणं-नमस्कारत्र्यपूर्वकवारत्रय सामायिकाऽऽलापको - च्चारणं, सम्यग् - सत्यमित्यमुना प्रकारेण, मतिकृत्-मतिकर्ता बुद्धिनिवेशयितेत्यर्थः, तथेति चारित्रवन्नन्दि:-प्रतीतः, उपलक्षणात् शोभनमुहूर्तवासक्षेपादिपरिग्रहः । तत्पूर्वकं सम्यगिति न मतिकृत्, तथाशब्दस्य लालाघण्टान्यायेनोभयत्र सम्बन्धात्तथा चारित्रवत् प्रत्याख्यानविधावुभे- त्रिरुच्चारो नन्दिश्चेतिद्वयमपि सम्यगिति नो मतिकृदित्यक्षरार्थः ।