________________
द्वात्रिंशिका
४१
धर्मानुष्ठानस्य निषिद्धत्वात्। अत्र बह व्यो युक्तयो ग्रन्थगौरवभयान्नोच्यन्ते, दिग्मात्रदर्शनं तु तत्त्वतरङ्गिणीवत्तितो बोध्यम् । एवं च सति यत्सामायिके पश्चादीर्यानिरूपणं तत्सामायिके विपरीतक्रियारूपो दोषः । स च सद्बीजाङ्कुरितेत्यादिलौकिकदृष्टान्तेन सर्वथा बुद्धिविकलस्यैव भवतीतिदर्शितम् । तथा 'जाव पोसहं पज्जुवासामि'त्ति पाठोच्चारेणैव पौषधावधिके विद्यमानेऽपि सामायिके यद्रात्रिपश्चिमप्रहरे सामायिकोपदेशनं तदधिकक्रियादोषः पौषधे बोध्यः। सोप्यतिमूर्खस्यैव भवति । यतोऽवध्यपूर्तावपि यदि पुनःपुनः कृतिः फलवती स्यात्तर्हि एकस्मिन्नेवोपवासे पुनःपुनः प्रत्याख्यानकरणेन शतशोप्युपवासा भवेयुरवधिकरणस्य च वैयर्थ्यमापद्यत । तथा च यावज्जीवावधिकचारित्रेप्युक्तयुक्तिरीक्षणीयेति सामायिकपौषधयोरपि प्रसिद्धदोषद्वयादाज्ञाबाह्यत्वमिति काव्यार्थः ।। .
अथ न केवलं विपरीतक्रिययैव सामायिकं दूषितं, किन्तु मूढजनविप्रतारणार्थमधिकोच्चारेणापि दूषितमिति प्रदर्शनाय पञ्चमकाव्यमाह - आयुःपर्यवसायिपञ्चयमवत् त्रिदण्डकोच्चारणं ; सम्यक सामयिके जनेति मतिकृन्नो नन्दिपूर्व तथा । प्रत्याख्यान विधावुभे इति विभो !स्यात् सोऽनुकम्प्यः कथं ? तद्य व ! दिवाकरद्युतिततिः कुर्वीत किं पेचकम् ॥ १५॥