________________
श्रीमहावीरविज्ञप्ति
भाववाची बुद्धिरहित इत्यर्थः । किं कुर्वन् ?, सद्वीजाङकुरितक्षमां हलेनोल्लेखयन्निव, सद्बीजैः शाल्यादिभिरङ्कुरिताजाताङ्कुरा या क्षमा- पृथ्वी, तां हलेनोत्कीरयन्निव, सुचित्तजननीं धर्मानुष्ठानयोग्य चित्तविधात्रीमीर्यामीर्यापथिकीमन्तेऽवसाने
४०
सामायिकदण्डकोश्चारानन्तरमित्यर्थः, प्रतिक्रामयन् चकारोऽध्याहार्यः, चः - पुनर्दोषा पौषधिनो -रात्रिपौषधिकस्यान्त्ययामसमये - रात्रि पाश्चात्यप्रहरे शिक्षयन्
सामायिकं
ग्राहयन्नित्यक्षरार्थः ।
भावार्थस्त्वयं पृथिव्याद्युपमर्दहेतुगमनाऽऽगमनादिक्रियापरिणताऽऽत्मनो हि धर्मानुष्ठानं विवक्षितफलवन्न भवतीत्यतः पृथिव्याद्यारम्भपरिणाम निवृत्तिहेतुरीर्याप्रतिक्रमणं तच शेषानुष्ठानेष्विव सामायिकेऽपि प्रथममेव युक्तं, उक्तहेतोर्बाधकं विना सर्वत्रापि समानत्वात् । यच्च सामायिके महर्द्धिकस्य राजाऽऽकारणकारणाद्युद्भावनं तत्पोषधाद्यनुष्ठानेऽपि समानस्वाद किञ्चित्करमेव । यत्परकृत सामायिकस्येर्यापथैर्वेति (?) कुविकल्पनं तदप्यशेषानुष्ठानेष्वतिप्रसङ्गभुजङ्ग्रस्तत्वात्तथैव बोध्यं । यच्च “सामाइअं काऊण” मित्याद्यावश्यकचूर्ण्यादिवचनं तदपि मूढानामेव भ्रान्त्युत्पादकं न पुनः सम्यग्धीधनानां । यतः सेर्या जइ चेइआइ अत्थि तो पढमं वंदति'त्ति श्री आवश्यकचूर्णिवचनादेव कृतसामायिकस्य चैत्यगमनागमनविषयिणी स्फुटैव, अन्यथा श्रीमहानिशीथादिनैव विरोधः स्यात्, तत्र च चित्तशुद्धिनिमिताया ईर्यायाः प्रतिक्रान्ति विना चैत्यवन्दन - स्वाध्याय-ध्यानादि