________________
द्वात्रिंशिका
इति । कृतेरप्युपलम्भो विपाकश्रुताङ्गादौ सुबाह्वादिनिदर्शनतो बोध्यः। किञ्च-(यथा) पडिक्कमे देवसिअं सव्व'मित्यादि सूत्रपाठोप्यधिकप्रतिक्रमणनिषेधको दृश्यते, न च तथा 'जाव पव्व दिवसंपज्जुवासामीत्यादि' सूत्रपाठोऽपर्वसु पौषधनिषेधकः, प्रत्युत जाव दिवस अहोरत्तिं पज्जुवासामी' त्यादिपाठः। स च सर्वदिनपौषधव्यवस्थापक इति। ये तु 'पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीया वित्यावश्यकवृत्त्यनुसारेण निषेधयन्ति, ते तद्वत्तेरभिप्रायानभिज्ञा एवावगन्तव्याः। तदभिप्रायजिज्ञासुभिस्तु मत्कृततत्त्वतरङ्गिणीवृत्तिरवलोकनीयेति काव्यार्थः।। __ अथ सामायिके क्रियावपरीत्यं पौषधे च क्रियाधिकं दिदर्शयिषुश्चतुर्थ काव्यमाहईयां सामयिके सुचित्तजननीमन्ते प्रतिक्रामयन्, सद्वीजाङ्कुरितक्षमामिव हलेनोल्लेखयन्नल्पधीः । दोषापौषधिनोऽन्त्ययामसमये सामायिक शिक्षयन्, दक्षंमन्यजनः कथं कथय मां स्वामिस्त्वदाज्ञापरः ॥१४॥
व्या०-हे स्वामिन् ! त्वं मां कथय अयं सामयिके दोषद्वयभाग खरतरो दक्षंमन्यजनः-अदक्षमप्यपण्डितमप्यात्मानं दक्षं मन्यते स दक्षंमन्यः, स चासौ जनस्त्वदाज्ञापरः-तवाज्ञावर्ती कथं ? न कथमपीत्यन्वयः। स च किंलक्षणः ?, अल्पधीः, अल्पा-एकांशग्राहित्वेनातिकृशा धीर्बुद्धिर्यस्य । यद्वाऽल्पशब्दोऽ