________________
द्वात्रिंशिका
देवता सन्निधौ-समीपे सान्निध्यकारितया विवक्षितैककार्यव्यापारवत्तया यस्यैवंभूतादित्यक्षरार्थः। ___ भावार्थस्त्वयं-अर्हदाद्यसाध्यं कार्य कथं श्रुतदेवतासाध्यमित्याद्यभिप्रायेण तेन श्रुतदेवतास्तुतिनिषिद्धा । तच्च महाऽज्ञानविलसितं । नहि यो यदपेक्षया प्रबलबलवान् स तत्साध्यकार्यसाधक इति नियमः। अन्यथाऽऽचार्योपाध्यायसाधुसाध्यकार्यस्य तदपेक्षया प्रबलबलवदर्हत्साध्यत्वेन 'नमो अरिहंताणमित्येकपदात्मकस्यैव नमस्कारस्य जापः प्रसज्येत । तस्मात्-स्वस्वसाध्यकार्ये सर्वेषामपि प्रबलबलवत्त्वं वैपरीत्ये च दुर्बलत्वमेव यथागमं बोध्यम् । लोकेऽपि प्रदीपादिसाध्यं सूर्येण साधयितुमशक्यं दृष्टं, उक्तं च-"विश्वान्धकारविध्वंस-हेतुर्ह लिमहानपि । नालं प्रदीपवद्भ मि-गृहान्तस्तमसोऽपहृत" ॥१॥ इत्यादि । युक्तिविस्तरस्तु मत्कृतषोडशश्लोकीवृत्तितोऽवसातव्य इति काव्यार्थः ।
॥इति गतस्त्रिस्तुतिकः॥ अथ काव्यपञ्चकेन क्रमागतं लुम्पाकमतं दूषयितुं तावत्तस्य विश्वासघातिनः केवलिगम्यमेवोत्पत्तिस्थानं दिदर्शयिषुः काव्यमाहविश्वार्यक्रम ! हे महाजडजनव्यामोहकर्गिरा, त्वबिम्बार्चनदोषदर्शनपराऽपुण्याक्षराक्षुणया । षड्जीवेष्वनुकम्पयाहृदयोऽस्मीति ब्रुवाणो बहिविश्चास्य प्रतिघातको हतघृणः किंयोनिमाकीभवेत् ॥२२॥