________________
द्वात्रिंशिका
२३ :
प्यनिष्टं । द्वितीये, स्त्रीजातेस्तथाविधचित्तासामर्थ्य किं प्रमाणं ?.. प्रत्यक्षं परोक्षं वा । न तावत्प्रत्यक्षं, तदर्थावबोधरूपस्य प्रत्यक्षस्य. तवासम्भवात् । द्वितीये त्वनुमानागमौ वा ? । न तावदनुमानं, तथाविधसाध्यसाधकहेतोरदर्शनात् । न च सप्तमनरकपृथिवीगमनासामर्थ्यमेव तत्र हेतुरिति वाच्यं, तस्य तीर्थकरबलदेवादौ व्यभिचारात् । तेषां तत्र गमनसामर्थ्याभावेऽपि मुक्तिगमनसामर्थ्यसद्भावात् । किञ्च-नहि मुक्तिंगमनं प्रत्यधोगतिगमनसामर्थ्य हेतुः, मत्स्यादीनामपि मुक्तिगमनसामर्थ्यप्रसक्तेः। तेषामधोगतिगमनसामर्थ्यसद्भावात् । नाप्यागमः, प्रत्युत मुक्तेः प्रतिपादनान्निषेधवचनस्याऽऽगमबाधितत्वात् । आगमो यथा“समणस्स भगवओ महावीरस्स सत्त अंतेवासीसयाई सिद्धाई जाव सव्वदुक्खप्पहीणाई चउदस अज्जिअ ास याई सिद्धाइ ति . एवं संहननादिसामग्र्यभावलक्षणोऽपि हेतुरागम बाधितत्वेन स्वसाध्यं साधयितुमसमर्थ एव । आगमबाधितत्वं च सिद्धि - सिद्धौ सिद्धमेव । न हि संहननादिसामग्र्यभावे मुक्तिप्राप्तिः । एवं पुरुषेभ्यो हीनत्वादितिहेतुर्न समीचीनः, यतः पुरुषेभ्य इत्यत्र सर्वपुरुषेभ्यः कतिचित्पुरुषेभ्यो वा ?। नाद्यः, स्वरूपासिद्धः नहि त्वदीयमतवासितव्रतिन्योऽपि चाण्डालादिषुरुषेभ्यो हीनतया त्वया व्यपदिश्यन्ते। द्वितीये, गणधरादीनामपि मुक्त्यवाप्तिर्न स्यात् । तेषां तीर्थकरपुरुषेभ्यो हीनत्वादित्यादि । अथाऽऽशाम्बरस्यातिप्रसङ्गाऽज्ञानमुद्भाव्य स्त्रीदृष्टान्तत एव पुंस्वपि केवलज्ञानाऽश्रद्धानानुमानादित्यत्रानुमानप्रयोगो यथा