________________
२४
श्रीमहावीरविज्ञप्तिपुमांसो न केवलज्ञानभाजो, बाह्यपुद्गलसम्पर्कात् वस्त्रावृतस्त्रीवदित्यनुमानेन पुंस्वपि केवलज्ञानाऽश्रद्धानसिद्धौ सिद्धा सर्वज्ञत्वेन स्वभक्तत्वेन वा भगवदमान्यता दिगम्बरस्य । अयं भावः-सर्वज्ञत्बेन भगवान् दिगम्बरस्य नाभिमतो, दिगम्बरो वा स्वभक्तत्वेन भगवतो नाभिमत इति ।
ननु सर्वज्ञो भगवानित्येवंरूपवचसा केवलज्ञानागीकारे सत्यपि कथं तदश्रद्धानानुमानमिति चेत् । उच्यते-आस्तां तावत्केवलज्ञानं, प्रवचनापलापिनां प्रवचनमात्रस्यापि वचोमात्रेवाङ्गीकारो, न श्रद्धानेन, तेषां स्वकल्पितमतानुसारेणैव प्रवचनप्रवर्तकत्वात् । तस्माद्वचोमात्रेण तदङ्गीकारो न सत्यतयाऽङ्गीकर्तव्यः। अन्यथा “चत्तारि कुंभा पं० तं० महुकुंभे नाममेगे महुपिहाणे, महुकुं० विसपिहाणे”इत्यादि । एवमेव 'चत्तारि पुरिसजाया पं० तं० महु० 'इत्यादिस्थानाङ्गोक्तचतुर्भङगीरचनाया वैयर्थ्यमापद्येत । अत एवात्रैव प्रतिज्ञायां 'वाचाज्ञां प्रतिपद्य ये त्वदरयस्तानेव वाग्गोचरीकुर्वे' इत्युक्तमिति काव्यार्थः।।
अथ दिगम्बरस्य विरोधाद्यज्ञानमुद्भावयन्नेव तच्चेष्टितमुपहसन्नाह
मन्वानोऽपि जिनेशि तैजसतनुं नाहारहेतुस्थिति, धर्माराधनसाधनान्यपि मुधा बुद्ध्या परित्याजयन् ।
देहं प्रत्युत पालयन्निति विसंवादाद्यवित्सर्ववित् ! निर्वाच्यं च निदर्शयन् कुलवधूस्तेऽरिवरं चेष्टते॥८॥