________________
श्रीमहावीरविज्ञप्तिवचनात् परमप्रेक्षावत्त्वेन परमकारुण्यभाजो हि भगवन्तो नाऽबलानां मुक्त्युपघातकमुपदिशन्ति । तथात्वे ह्यास्तां तावदन्यल्लोकनिन्द्या अपि भगवन्तो भवेयुः। उक्तं च लौकिके - "बालस्त्रीव्रतिघातकाः स्युरधमाधीशाः श्वपाका इवे"त्यादि । द्वितीये तु ताभिः शिवभूतेः किमपराद्धं ?, येन पापात्मनाऽबलानां वस्त्रदानेन मुक्त्युपघातो विहितः। न ह्यान्तरवैरमन्तरेण कश्चित्तथाविधोत्कृष्टार्थसम्पदागमनिवारको भवति । ननु भोः ! शिवभूतिना वस्त्रदानं स्त्रीणां ब्रह्मचर्यादिरक्षार्थमेव विहितमिति चेत् । चिरं जीव, येनाऽऽयातोऽसि स्वयमेव मदुक्तमार्गेण । यतो यद् ब्रह्मचर्यादिपालनहेतुस्तत्संयम प्रति हेतुरेवेत्यतः सिद्धं प्रत्युत निष्परिग्रहताहेतुर्वस्त्रपात्रादि, तत्कुतोऽसंयमहेतुः, कुतो वा मोक्षोपघातकमिति त्वयापि सवस्त्रस्य मुक्तिर्व्यवस्थापिता। एवं तृतीयेप्यशक्यपरित्यागः किं शरीरावयवसहोत्पन्नत्वात् कर्णवेधवच्छरीरसम्बद्धकृतविकारत्वाद्वा ? । उभयथापि प्रत्यक्षबाधः, बाल्यावस्थायामिवान्यावस्थास्वपि स्नानाद्यवसरविशेष वस्त्रराहित्यस्य सर्वजनप्रतीतत्वात् । अथ चकारसूचितहेतुप्रयोगो यथा-स्त्रियो न मुक्तिभाजः, तथाविधचित्ताऽसामर्थ्यात् नपुंसकवदिति। तत्र तादृशसामर्थ्याभावस्तासां किं गतिस्वाभाव्यात् जातिस्वाभाव्यात् उत संहननादिसामग्र्यभावात्पुरुषेभ्यो हीनत्वाद्वा ?। न तावदाद्यो, मनुष्यमात्रस्यापि मोक्षानाप्तिप्रसक्तेः। तच्च तवाप्यनिष्टमेव । द्वितीये, का जातिः ? पञ्चेन्द्रियत्वं स्त्रीत्वं वा। आद्येऽनन्तरोक्तवत्तवा