________________
द्वात्रिंशिका
नुत्पत्तिस्तदनुत्पत्तौ च कुतो मोक्षावाप्तिरिति तात्पर्यम् । प्रथमचकारस्तथाविधचित्तासामर्थ्यादिहेत्वन्तरसूचक इत्यक्षरार्थः ।
भावार्थस्त्वयं-दिगम्बरमते स्त्रीणां मुक्तिनिषेधस्तत्र सवस्त्रत्वादयो हि हेतवोऽवान्तरव्यापारस्तु केवलज्ञानाभाव एवेत्यतः स्त्रीनिर्वाणनिराकृतौ चेत्यादि पूर्वार्धम् । प्रयोगस्तु-स्त्रियो न मुक्तिभाजो, वस्त्रावृतत्वात् देशविरतिवदिति । तथा द्वारीभूतकेवलज्ञानाभावोप्यनेनैव साध्यः। प्रयोगो यथा-स्त्रीणां केवलज्ञानं न भवति, वस्त्रावृतत्वादित्यादि । यद्वा वस्त्रावृतत्वेन हेतुना केवलज्ञानामावं प्रसाध्य सिद्धेनैव केवलज्ञानाभावरूपहेतुना मुक्त्यभावः साध्यः। प्रयोगो यथा-तत्र केवलज्ञानाभावसाधकमनुमानं प्रागवत् । स्त्रियो न मुक्तिभाजः, केवलज्ञानाभावात् सुरवदिति । अथोत्तरार्द्धन दिगम्बरस्यातिप्रसङ्गाऽज्ञानमाह-'तस्मादेवे'त्यादि। अत्र मतिश्रुतयोरुपलक्षणत्वादवध्यादिपरिग्रहः । प्रयोगो यथा-दिगम्बरमते सवस्त्रस्य मत्यादिज्ञानान्यपि न भवेयुः, सवस्त्रत्वात् सवस्त्रमिथ्यात्विमनुष्यवदिति । यद्वा मत्यादि ज्ञानचतुष्टयं सवस्त्रस्य न सम्भवेत्, ज्ञानत्वात् केवलज्ञानवदिति । किमुक्तं भवति-आत्मप्रदेशाऽसम्बद्धपुद्गलात्मकमपि वस्त्रं यद्यात्मगुणकेवलज्ञानावरणं भवितुमर्हति, तर्हि मत्यादिज्ञानानामप्यावरणं भवतु । उभयत्रापि विशेषाभावात् । लोकेऽपि यद्यस्यावरणं तत्तज्जातीयं वा तज्जातीयानामप्यावरणमेव दृष्टं । यथा भित्त्यादिकं सूर्यालोकस्यावरणं तथाऽऽलोकत्वेन साम्यान्निशारत्न-रत्नप्रदीपाद्यालोकस्याप्यावरणमेव । अत