________________
श्रीमहावीरविज्ञप्ति. व्या०-हे स्वामिन् ! स्त्रीनिर्वाणनिराकृतौ-स्त्रीमुक्त्यभावे, सिचयाऽऽवृत्यङ्गतालिङ्गता-वस्त्रावृताङ्गत्वस्य लिङ्गत्वमिति प्रतिज्ञावतो दिगम्बरस्य तस्मादेव-उक्तहेतोरेव सवस्त्रस्य मे मतिश्रुते कथं स्यातामिति प्रज्ञाशून्यहृदस्ततः स्त्रीदृष्टान्ततः तदरुचेः-केवलज्ञानाश्रद्धानस्य मानाद्-अनुमानात्ते-तव, मान्यता नास्तीत्यन्वयः। तत्र मान्यतास्वीकारस्तव नास्ति । कोऽर्थः ? सर्वज्ञत्वेन त्वं तस्या भिमतो नासि, स्वाऽऽज्ञावर्तित्वेन नमाटो वा तवाभिमतो नास्तीत्यर्थः। अयं भावः-यथाऽऽत्मप्रदेशाsसम्बद्धपुद्गलात्मकवस्त्रेणाऽऽवृतस्त्रीषु केवलज्ञानाभावः, तथा पृथिव्यादिसम्पर्कवत्सु पुंस्वपि तदभाव एव, उभयत्राप्यात्मप्रदेशाऽसम्बद्धत्वेनाऽऽवरणे विशेषाभावात् । प्रकरणात् प्राप्तस्य दिगम्बरस्य । किम्भूतस्य ? प्रज्ञाशून्यहृदः, बुद्धिरहितहृदयत्वं चास्य तस्मादेव-वस्त्रावृताङ्गत्वादेव ज्ञानत्वेन केवलज्ञानसाम्यात् सवस्त्रस्य मे-मम, मतिश्रुते-मतिश्रुतज्ञाने कथं स्यातामित्यादिविचारशून्यचित्तत्वात् । पुनः किंलक्षणस्य ? प्रतिज्ञावतः, प्रतिज्ञा च स्त्रीनिर्वाणनिराकृतौ सिचयाऽऽवृत्यङ्गतालिङगता, सिचयेन-वस्त्रेणावृतिरावरणं यस्यैवंविधमङग यस्य तस्य-भावस्तत्ता तस्या लिङगता-हेतुत्वं सिचयावृत्यङ्गत्वलिङ्गमित्यर्थः। च-पुनस्तत्र द्वारमवान्तरव्यापारः, किं ?, तत्कलकेवलानुदयता, तेन-वस्त्रेण, कलो-युक्तो वस्त्रेण वा कला शोभा यस्य स तत्कलः, परिहितवस्त्र इत्यर्थः। तस्मिन् मनुष्ये केवलस्य-केवलज्ञानस्यानुदयताऽसद्भावता। अयं भावः-वस्त्राऽऽवृतानां केवलज्ञाना