________________
द्वात्रिंशिका
दिगम्बरस्यावश्यक निर्युक्तौ, पूर्णिमीयकादिपञ्चकस्य तूत्सूत्रकन्दकुद्दालादौ, शेषाणां तु ततोऽप्यधमत्वात् स्फुटमेव । उक्तार्थसङ्ग्राहककाव्यद्वयं त्वेवं
१७
“श्रीमद्विक्रमतोऽङ्करामरजनीशाब्दे १३६ भवद् बोटिको भूतिर्नामशिवान्नवेषु गिरिशे १९५६ चन्द्रप्रभः पौर्णिमः । वेदाभ्रारुण १२०४ औष्ट्रिको जिनपदाद् दत्तायाद्योऽभवत्, विश्वार्के १२१४ नरसिंहतोऽञ्चलमतं राकाङ्कितान्निर्गतम् ॥ सिंहात्प्राक् सुमतेः षडग्निकिरणे १२३६ ऽब्दे सार्धराकाङ्कितं, जातं त्रिस्तुतिकं च शीलगणतो व्योमेन्द्रियार्के १२५० कलौ । लुम्पाको वसुखेन्द्रियेन्दुषु १५०७ कटुर्द्वाषष्टितिथ्यब्दके, १५६२ वन्ध्यः खाद्रितिथौ १५७० तथा च दशमः पाशोऽक्षिसप्ताक्षकौ” १५७२ ।। २ ।
शिवाद् भूतिः शिवभूतिः, जिनपदाद् दत्ताह्वयाद् जिनदत्तनाम्नः, प्राग्-पूर्वं सुमतिर्यस्यैवंविधात् सिंहात् सुमतिसिंहादित्यर्थः ॥ अथ दशानामप्यमीषां कुविकल्पनाविष्करणपुरस्सरं तन्निराचिकीर्षुर्यथोद्द ेशं निर्देशमिति न्यायात् प्रथमं काव्यद्वयेन प्रथममुद्दिष्टस्य दिगम्बरस्याभिप्रायमा विष्कृत्य तन्निराकुर्वन्नाह - स्त्रीनिर्वाणनिराकृतौ च सिचयावृत्यङ्गतालिङगता, द्वारं तत्कल केवलानुदयता चेति प्रतिज्ञावतः । तस्मादेव मतिश्रुते कथमिति स्यातां सवस्त्रस्य मे, प्रज्ञाशून्यहृदस्ततस्तदरुचेर्मानान्न ते मान्यता ॥७॥