________________
श्रीमहावीरविज्ञप्तिसत्तऐ निहगा खलु, तित्थंमि उ वद्धमाणस्स"त्ति । आवश्यकनियुक्तिगाथावृत्त्येकदेशो, यथा-सप्तैतेऽनन्तरोदिताः। उपलक्षणमेतत् । तेनोपधानाद्यपलापिनोऽपि 'निहगा खलु'त्ति तीर्थकरभाषितमर्थमभिनिवेशवशात् निहनुवतेऽपलपन्तीति निह्नवाः । एते च मिथ्यादृष्टयः सूत्रोक्तार्थापलपनात् । उक्तं च-सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः।
मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥ १ ॥ खल्विति विशेषणे। किं विशिनष्टि ? एते साक्षादुपात्ता उपलक्षणसूचिताश्च देशविसंवादिनो द्रव्यलिङ्गेनाभेदिनो निह्नवाः। बोटिकास्तु वक्ष्यमाणाः सर्वविसंवादिनो भिन्नाः निह्नवा इति, तीर्थ वर्धमानस्येति श्रीमलयगिरिवृत्तिः पत्र २१२ द्वितीयखण्डे। उक्तनामानश्वामी अप्युपधानादितपोनिषेधका एव । तस्मान्निह्नवा इति । यद्यपि खरतरस्योपधाननिषेधककत्वं नाममात्रेण नास्ति, तथाप्यादिशब्दसूचितत्रिचतुरादिद्रव्योपेताऽऽचाम्लादितपोनिषेधकत्वेन सोप्युपात्तो द्रष्टव्यः। एतेन प्रवचनोक्ता सप्तैव निह्नवा भवन्ति, नाधिका इति प्रलपन्तोऽपि परास्ताः, अधिकानामप्यागमे श्रवणांत् । तस्माज्जमाल्यादिनिह्नवसप्तकनिदर्शनं भाविनिह्नवानां दृष्टान्तायैव बोध्यम् । उक्तं च
"आयरिअपरंपरएण आगयं जो उ आणुपुव्वीए।
कोवेइ छेअवाई, जमालिनासं स नासिहि ॥ १॥ त्ति सूर्यप्रज्ञप्तिनियुक्तौ । तथा नामग्राहेणाप्यधिकनिर्वचनं यथा