________________
द्वात्रिंशिका
१५
1
}
सर्वेप्यन्यायिनः यूयं, तस्करा इव भूपति" मिति । स्पर्द्धिनः कस्मात् ?, स्वीयाऽऽग्रहात्, स्वकीयो य आग्रहः - कदाग्रहोऽसत्यमपि स्वोपात्तं न त्यक्ष्यामीत्येवंरूपेणाभिनिवेशमिध्यात्वरूपस्तस्मात् । किम्भूतात् ? दुर्महात् दुर्ग्रह इव दुर्ग्रहस्तस्मात् । अन्येऽपि ये दुर्ग्रहग्रस्तास्ते यत्तत्प्रलापिनो भवन्ति तथाऽमी अपीतिभावः । नन्वमीषां स्वकर्मप्रभवनामकत्वं तावत्तदपत्यानां विद्यमानत्वेन प्रतीतमेव परं मताऽऽकर्षककालादि कुतो ज्ञातमिति चेत् । उच्यते-दिगम्बरमताकर्षकः शिवभूतिस्तु श्रीआवश्यक नियुक्त्यादेरवगतः । उत्पत्तिकालोऽपि तत एव । पूर्णिमीयकादिपञ्चकस्य तु चन्द्रप्रभ - जिनदत्त- नरसिंह- सुमतिसिंहशीलगणनामानः क्रमेण मताऽऽकर्षका उत्सूत्र कन्दकुद्दालादिभ्योऽवगताः । कालोप्युक्तलक्षणस्तत एव । लुम्पाकादिचतुष्कस्य तु मतसदृशनामानो मताकर्षकाः स्वस्वमतेभ्य एवावगताः । कालस्तु आधुनिकत्वेन सर्वजनप्रतीत एव । अल्पकालान्तरितत्वेनैकस्मादपि वृद्धात् श्रयमाणत्वात् । आदिशब्दान्निह्नवत्वं । तच्चागमविरुद्धप्ररूपणादर्शनेनाऽऽगमादेवाऽवगतं ।
आगम
विरुद्धप्ररूपणा तु अस्यामेव स्तुतौ भगवत्पुरो विज्ञप्तिद्वारा प्रादुष्करिष्यते । बहुसम्मताऽऽगमदर्शनप्रतीतिकतॄणां तु श्रीमलयगिरिविरचितश्रीआवश्यक निर्युक्तिवृत्तिरेव शरणम् । यतस्तत्रोपधानादि-तपोनिषेधकाः सर्वेऽपि निह्नवा एवोक्ताः। उक्त ं च
तत्रैव
" बहुरय-पएस - अव्वत्त-समुच्छ-दुग-तिग अबद्धिआ चेत्र ।