________________
१४
श्रीमहावीरविज्ञप्ति
9
न दृष्टिपथमायान्तीति कटुकभाषया बोध्यम् । तेन वस्तुतः सर्वेषामपि साधुद्वेषित्वेऽपि तथाविधकटुकभाषाया अभावात्तेभ्यः पार्थक्यान्न नाम्ना साङ्कर्यमिति । अयं भावः श्रीविक्रमतो द्वाषष्ट्यधिक पञ्चदशशतेषु कटुकमतोत्पत्तिः । तन्मताकर्षकस्तु कटुकनामा गृहस्थः ॥ ८ ॥ तथा व्योमाश्वबाणावनौ-शून्य सप्तपचकमिते वर्षे सङ्करमतिर्वीजामती इति लोकरूढ्या वन्ध्यमतिः समुत्पन्नः । अयं भावः - सप्तत्यधिकपञ्चदशशतेषु वीजामतोत्पत्तिः । तन्मताकर्षकस्तु लुम्पाकमतान्निर्गतो वीजुनामा वेषधरः ||६|| तथा द्विवाजिशरभूमिते वर्षे - द्विसप्तपञ्चकमिते वर्षे, बिम्बाद् विमुख:-बिम्बादुर्जनः । दुर्जनत्वं चास्य जिनप्रतिमापूजाङ्गीकारेऽपि सावद्यत्वधिया साधूपदेशानङ्गीकारात् । अयं भावः-श्रीविक्रमतो द्विसप्तत्यधिकपञ्चदशशतेषु पाशमतोत्पत्तिः । तन्मताकर्षकस्तु नागपुरीयतपागणान्निर्गतः पाशचन्द्रनामोपाध्यायो बोध्यः ||१०|| अथ प्रागुक्ता दशाप्यमी अन्योन्यं कीदृग् स्वभावा इति दर्शयति- सर्वेऽपीमे प्रागुक्ता दिगम्बरादिपाशचन्द्रान्ता दशापि दशसङ्ख्याका अपि कीदृशा ? विदिश:प्रवृत्तिप्ररूपणाभ्यामन्योन्यं विरुद्धा दिशो मनमार्गा येषां ते विदिशः परस्परं भिन्नमार्गप्रवर्तका अन्योन्यं विवादाऽऽपन्नमार्गप्रकाशका अन्योन्यं स्पर्द्धिन इतियावत् । अत एवान्योन्यं विवादे सति न्यायप्राप्त्यभिलाषेण सङ्घ प्रत्यागताः सङ्घेन सर्वेप्यन्यायिन एव कर्तव्याः । उक्त ं च
-
वादिनोऽपि मिथो यूयं, कुपक्षाः सङ्घमागताः ।