________________
द्वात्रिंशिका
१३
केचित् खरतराणामुत्पत्तिं श्रीजिनेश्वरसूरितो वदन्ति, ते खरतराणामपत्यान्येव, न पुनः कश्चित् शास्त्रज्ञः, तथाविचारस्यानुपपत्तेः । तदनुपपत्तिजिज्ञासुना तु मत्कृतौष्ट्रिकमतोत्सूत्रप्रदीपिकाऽवलोकनीया ॥ ३॥ तथा विश्वार्के-चतुर्दशद्वादशमिते वर्षेऽम्बरपल्लवोऽश्चलः समुत्पन्नः। अयं भावः-श्रीविक्रमतश्चतुदशाधिकद्वादशशतेषु अञ्चलमतोत्पत्तिस्तन्मताकर्षकस्तु एकाक्षो नरसिंहोपाध्यायः ॥ ४॥ तथा 'षडनलार्के-षटत्रिद्वादशमिते वर्षे द्वयर्द्धराकाग्रही-सार्द्धपूर्णिमीयकः समुत्पन्नः। अयं भावः-श्रीविक्रमतः षट्त्रिंशदधिकद्वादशशतेषु सार्द्धपूर्णिमीयकमतोत्पत्तिः। तन्मताकर्षकस्तु सुमतिसिंहाचार्यः ॥ ५ ॥ तथा पुनः खाक्षद्विचन्द्रे-शून्यपञ्चद्व्येकमिते वर्षे, श्रीमत्शासनदेवतास्तुतिरिपुः-आगमिकः समुत्पन्नः । अयं भावः-श्रीविक्रमतः पञ्चाशदधिकद्वादशशतेषु त्रिस्तुतिकोत्पत्तिः। तन्मताकर्षको तु शीलगणदेवभद्राविति ॥ ६ ॥ तथाऽष्टाभ्रेष्ववनौ-अष्टशून्यपञ्चैकमिते वर्षे, पुनः जिनप्रतिमया स्पर्धी-जिनप्रतिमावैरी लुम्पाकः समुत्पन्नः । अयं भावः- श्रीविक्रमतोऽष्टोत्तरपञ्चदशशते 'लंका' इति लोकोक्त्या लुम्पाकमतोत्पत्तिः। तन्मताकर्षकस्तु मतसदृशनामा लूंकाख्यो लेखको बोध्यः । वेषधारित्वं चास्य विक्रमतः सं० १५३३ वर्षे बोध्यम् ।।७। तथा युग्माङ्गेष्ववनौद्विषट्पञ्चैकमिते वर्षे, लालाघण्टान्यायेन पुनः शब्दाद्वा स्पर्द्धिशब्दस्योभयत्र सम्बन्धात् साधुभिः स्पर्धी-साधुवैरी यथार्थनामा कटुकः समुत्पन्नः। साधुवैरित्वं चास्य सम्प्रति साधवो