________________
श्रीमहावीरविज्ञप्तिचन्द्रप्रभाचार्येण श्राद्धप्रतिष्ठा प्ररूपिता। कालान्तरे च मतभेदकरणाय पूर्णिमा प्रकाशिता। ततः श्रीमुनिचन्द्रसूरिप्रभृतिसमस्तसधेनाऽनेकयुक्तिभिर्बोधितोऽपि स्वाभिनिवेशमत्यजन् सङघबाह्यः कृतस्ततः पूर्णिमीयकमतप्रवृत्तिः। एवमौष्ट्रिकादीनामप्युत्पत्तिर्वाच्या। सर्वेषामपि निमित्तान्तरसद्भावेऽपि रागद्वेषहेतुकस्याऽभिनिवेशस्यावश्यकत्वात् शिवभूतेरिव अभिनिवेशमन्तरेण परम्परायाततीर्थत्यागस्याशक्यत्वात्, परं दिगम्बर-पूर्णिमीयकौष्ट्रिक-पाशचन्द्रा अनन्तरसङ्घनिर्गतत्वेन सङ्घबाह्याः। स्तनिक-सार्द्धपूर्णिमीयको तु पूर्णिमीयकमूलकत्वेन सङ घबाह्यबाह्यौ। आगमिकस्तु पूर्णिमीयकाञ्चलिकमतद्वयमूलकत्वेन बाह्यबाह्य एव । कटुकस्तु त्रिस्तुतिकमतगृहस्थत्वेन सङ्घबाह्यातिबाह्यः । लुम्पाकस्तु लेखकमूलकत्वेनाव्यक्तनामा बोध्यः। वन्ध्यस्तु लुम्पाकनिर्गतत्वेनाव्यक्तबाह्यः इत्यादि स्वयं बोध्यम् । ननु पूर्णिमीयकमते कासाश्चिन्पूर्णिमानां पाक्षिकत्वेन स्वीकारः, कासाञ्चिच्च चतुर्मासीत्वेनेत्यतस्तस्य राकाङ्क इति नाम न स्वकर्मप्रभवं, किन्तु सर्वासामप्यमावासीनां पाक्षिकत्वेन स्वीकारात् आमावासिक इति नाम स्वकर्मप्रभवं युक्तमिति चेत् । सत्यम्, यद्यप्येवमस्ति, तथापि लोकप्रवृत्त्यनुसारेण प्रवृत्तेर्न दोषः ॥ २॥ तथा युगनभोर्के-चतुःशून्यद्वादशमिते वर्षे, स्त्री जिनाऽर्चाद्विषन्-स्त्रीजिनपूजानिषेधकृत् चामुण्डिकौष्ट्रिकापर पर्यायः खरतरः समुत्पन्नः। अयंभावः-श्रीविक्रमतश्चतुरुत्तरद्वादशशतेषु खरतरमतोत्पत्तिः, तन्मताकर्षकस्तु जिनदत्ताचार्यः। ये