________________
२०
श्रीमहावीरविज्ञप्तिएवात्मप्रदेशाऽसम्बद्धवस्त्रसम्पर्कवत्पृथिव्यादिसम्पर्कोऽपि केवलज्ञानावरणं भवत्वित्यभिप्रायेणानन्तरमस्मिन्नेव काव्ये पुंस्यपि केवलज्ञानाभावः साधयिष्यते । किञ्च-यदि शरीरे वस्त्रसम्पर्कः समुत्पद्यमानकेवलज्ञानस्य प्रतिबन्धकस्तर्हि उत्पन्नस्यापि केवलस्य विनाशकोऽपि भवन् केन निवार्यः ?। यथा मतिश्रुताद्यावरणोदय उत्पद्यमानस्य मत्यादिज्ञानस्य प्रतिबन्धकस्तथोत्पन्नस्यापि मत्यादेविनाशकोऽपि दृष्टः। यच्च सवस्त्रत्वेन हेतुना केवलज्ञानाभावे साध्ये हेतोरसिद्धत्वादिदोषाऽऽकुलत्वेऽपि प्रतिबन्धाऽतिप्रसङ्गोद्भावनं तत्प्रायोऽल्पधियोऽपि प्रतीतिविषयीभवनार्थमितिबोध्यम्।
ननु हेतोरसिद्धत्वोद्भावना कथमिति चेत् । उच्यते-तत्र दिगम्बरं प्रत्येवं वाच्यं-भो नग्नाट ! पक्षत्वेनाभिमताः स्त्रियः किमसंयतिन्यः संयतिन्यो वा ? । आये, सिद्धसाधनं । अस्माकमपि तथैवाभिमतत्वात्। नहि वयमप्यसंयतस्त्रीणां मुक्तिसद्भाव वदामः। द्वितीयेऽपि संयंतस्त्रीणां वस्त्रं किं केवलज्ञानावरणत्वात् उत परिग्रहरूपत्वेनासंयमहेतुत्वाद्वा मुक्तिप्रतिबन्धकं ? न तावदाद्योऽनवद्यः, वस्त्रस्यात्मप्रदेशाऽसम्बद्धपुद्गलात्मकत्वेनाऽऽत्मगुणकेवलज्ञानावरणत्वाऽसम्भवादित्यादियुक्त्युद्भावनेनानन्तरमेव निराकृतत्वात् । किञ्च-सवस्त्रत्वं तावत् स्त्रीषु कादाचित्कं सार्वदिकं वा ?। प्रथमे तावत्पुंस्यपि कादाचित्कसवस्त्रत्वेन हेतुना केवलज्ञानाभावः साध्यः, अन्यथा पुंस्येव व्यभिचारात् । यद्वा कादाचित्कसवस्त्रत्वेन हेतुना पुंदृष्टान्तेन स्त्रीष्वपि केवलज्ञान