________________
द्वात्रिंशिका
व्या०-हे ईश ! सर्वविदस्तवापि पुरतः-सवंज्ञस्य भवतोऽपि पुरस्तात्, त्वद्भक्तिनुन्नोन्नतः-तव भक्त्या प्रेरितः सन्नुन्नतिं प्राप्तः, एवंविधोऽहं । तत्रापि त्वद्वैरिष्वपि वाचाऽऽज्ञां-वचोमात्रेण त्वदाज्ञां, प्रतिपद्य-स्वीकृत्य, ये त्वदरयस्तववैरिणो वर्तन्ते, तानेव वाग्गोचरीकुर्वे-वचोगोचरान् विदधे इति प्रतिज्ञाऽन्वयः। तानेवेत्यत्रैवकारोऽन्ययोगव्यवच्छेदार्थः। तेन वचोमात्रेणापि त्वदाज्ञामनङ्गीकुर्वाणा ये साङ्ख्यादयस्तान्न वाग्गोचरीकुर्वे इत्यर्थः। तन्निदानं पूर्वार्द्धनोक्तमवगन्तव्यं । तच्च सर्वविदोऽपि पुरस्ताद्वाग्गोचरीकरणं तत्कुत इति स्तुतिकर्तृविशेषणद्वारा हेतुमाह-कीदृशोऽहं त्वद्भक्तिनुन्नोन्नतः। यो हि त्वद्भक्तिनुन्नोन्नतः स त्वत्पुरस्ताद्वैरिज्ञापने विलम्बं न कुर्यात्, त्वद्भक्तेः सदृशस्वभावत्वात् । अथ पूर्वार्द्धन सङ्कोचमाह-तानेव वाग्गोचरीकुर्वे, किं कृत्वा ?, परित्यज्य, कान् तान् ? यत्तदोनित्याभिसम्बन्धात्, यान्, कुतस्तान् ? [कान्] यद्-यस्माद्येऽमी-प्रत्यक्षाः साङ्ख्यादयो दस्यवः, करेण करं गृहीत्वेत्यर्थवक्रियाविशेषणं, करकरग्राहं यथा स्यात्तथा पुरापूर्व, पुरातनमदीयाऽऽचार्यवयः । पुरातनाः-जीर्णा ये मदीया आराध्यत्वेन ममताबुद्धिविषयाः ये आचार्यवर्याः- आचार्यप्रधानास्तैस्तव पुरस्तात् प्रज्ञप्ताः-प्रकाशिताः। अयं भावःश्रीसमन्तभद्रश्रीहेमाचार्यादिप्राचीनाचार्यश्चतुर्विंशतिजिनस्तवनश्रीमहावीरद्वात्रिंशिकादिषु करेण करं गृहीत्वा ये साङ्ख्यादयः प्रसिद्धद्वेषिणस्तव पुरस्तात्प्रज्ञप्तास्तान् परित्यज्य देवोऽहन सुसाधु