________________
६
श्रीमहावीरविज्ञप्ति
'तद्वदि' त्यादि । हे श्रीमद्वीर ? पुनस्तद्वदसौ तव प्रत्यर्थीति शप्तयेज्ञापनाय, तव पुरो विज्ञप्तौ - विज्ञापने, स्पृहयालुता नोचिता-न हितवती स्यात् । तद्वच्छब्दस्तु लालाघण्टान्यायेनेहापि योज्यः, परं भिन्नार्थभाग्। भिन्नार्थता च सर्वादेर्बुद्धिस्थत्राचकत्वेन पूर्वं तद्वत् योगीश्वरवदिति व्याख्यातम् । इह तु तस्मिन्निव तद्वत्, त्वद्गुणवर्णन इवेत्यर्थः । अयं भावः - हे स्वामिन् ? यथा त्वद्गुणवर्णने स्पृहयालुता हितवती, न तथा तव पुरस्त्वद्वैरिज्ञापनाय - विज्ञपने सा हितवती, किन्तु 'विपत्तये वैरिविश्वास' इतिवचनात् नामग्राहमाशु स्वामिनः पुरो वैरी वाग्गोचरीकर्त्तव्य एवेति । अनेन विभुपुरस्ताद्वैरिज्ञापनविज्ञप्तिं करिष्यामीत्येवं रूपां हृदयस्थामेव प्रतिज्ञां ज्ञापितवान् । तत्र वैरिज्ञापनविज्ञप्तिः श्वामिभक्तिः स्वामिभक्तानां चानुग्रहहेतुरिति बोध्यम् । अत एवानन्तरकाव्ये त्वद्भक्तिनुन्नत्वमात्मनश्चतुर्थेकाव्ये च 'नामग्राहनिरूपिता हितममी तीर्थस्य ते स्यु' रित्यादि वक्ष्यतीति काव्यार्थः ।
अथ यावद्यथा चिन्तितं वाग्गोचरीकर्तुमशक्यमितिन्यायात् चित्तस्थामपि प्रतिज्ञां सङ्कोच्य स्वशक्त्यनुसारेण वाग्गोचरीकरणाहमेव प्रतिज्ञामाविष्कुर्वन्नाह -
तत्रापीश ! पुरा पुरातनमदीयाऽऽचार्यवर्यैः पुरः, प्रज्ञप्ता यदमी द्विषः करकरग्राहं परित्यज्य यान् । वाचाऽऽज्ञां प्रतिपद्य ये त्वदरयस्तानेव वाग्गोचरीकुर्वे सर्वविदस्तवापि पुरतस्त्वद्भक्तिनुन्नोन्नतः ॥ ३॥