________________
द्वात्रिंशिका
न्तद्वारात्मनो दर्शयन्नेव शक्त्यनुसारेणावश्यवक्तव्यताविषयिणीं चित्तस्थामेव प्रतिज्ञां सूचयन्नाह
ऐश्वर्यादिगुणैकलेशमपि ते वक्तुं न योगीश्वरः, कोटी-कोटिनिजायुषापि विभवे जिह्वासहस्र रपि । तन्मेऽपि स्पृहयालुता हितवती तत्राऽस्तु तद्वत्पुन, विज्ञप्ताविति नोचिता तव पुरः प्रत्यर्थ्य सौ ज्ञप्तये ॥२॥ व्या० - यत्तदोर्नित्याभिसंबन्धात् यस्मात् कारणात् हे श्रीमद्वीर जिनेश्वर ? आस्तां जडमतिर्मादृशो जनो, योगीश्वरोऽपि केवल्यपि, आस्तां समप्रभावेनैकोऽपि गुणः, ऐश्वर्यादिगुणैकलेशमपि प्रभुतादिगुणैकदेशमपि वक्तुं वाग्गोचरीकर्तुं न विभवे चेन्न समर्थो भवेदित्यन्वयः । कैः कृत्वा ? कोटी कोटिनिजायुषापि जिह्वासहस्र रपि । कोटीकोटिशब्दो हि कोटीकोटिगुणितादिसंख्यानामुपलक्षकः । तृतीया चात्र करणार्थे । करणत्वं च भगवद्गुणवर्णने जिह्वायुषोर्लोकप्रतीतमेव । एतावता भगवद्गुणवर्णने सामर्थ्याभावेन योगीश्वरस्यापि स्पृहयालुता सूचिता, तत्-तस्मात्-कारणात् तद्वत्तस्येव तद्वत् योगीश्वरस्येवेत्यर्थः । तत्र त्वद्गुणवर्णने मेsपि ममापि स्पृहयालुता - कदाहं त्वद्गुणान् वाग्गोचरीकरिष्ये इत्येवंरूपेणेच्छुकता, हितवती - हितकारिणी, अस्तु भवतु । अनेन त्वद्गुणवर्णने योगीश्वरद्वारा स्वस्य सुतरामसामध्यं स्पृहयालुतायाश्चौचित्यं सूचितम् । अथ न सर्वत्रापि स्पृहयालुताया एवौचित्यमित्युपदर्शयन् प्रतिज्ञां सूचयति