________________
श्रीमहावीरविज्ञप्ति____ "प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेश” इति । एतद्विस्तरार्थजिज्ञासुना तु रत्नाकरावतारिकाsवलोकनीया । अनेन वचनातिशयो दर्शितः। पुनः किंभूतं त्वां ? अपायवन्ध्यस्थिति, अपायैरुपद्रवैर्वन्ध्या-शून्या, स्थितिः-स्वप्रवृतिमर्यादा यस्य स तमनेनापायापगमातिशयो दर्शितः। तदर्शनेन च दर्शिताश्चत्वारोऽपि मूलातिशयास्तेषां सार्थकता स्याद्वादमअर्यादिग्रन्थान्तरतोऽवसातव्या। विशेषणानां सार्थकतात्वेवंश्रीमदिति स्वर्गिजनविशेषणं देवेष्वपि महर्द्धिकतासूचनार्थं । सा च शक्रादिनामेवेति । संक्रान्तविश्वत्रयमिति विज्ञानविशेषणं लोकप्रसिद्धप्रभूतत्वज्ञापनार्थ । लोके हि विश्वत्रयगोचरं ज्ञानमुत्कृष्टमुच्यते, लोकोत्तरे तु लोकालोकप्रकाशकं ज्ञानमुत्कृष्ट, तदानीं विश्वत्रयपदमलोकस्याप्युपलक्षकम् । बाधवन्ध्यमितिविशेषणं वचनस्योपादेयत्वज्ञापनार्थ, बाध्यवचनस्यानुपादेयत्वाद् । बाध्यत्वं चात्र पूर्वापरविरोधित्वमित्यादि । अबाध्यत्वं कुत इति विशेषणद्वारा हेतुमाह-किंलक्षणं वचः ?, विलसदित्यादि । तच्चैवं-यद्वचनं निर्दोषपूर्वपक्षसिद्धान्तात्मकं भवति, यच्च स्याद्वादमुद्राङ्कितं भवति, तत्परैर्बाधयितुं न शक्यत इत्यर्थः। श्रीमद्वीरेतिपदं वर्त्तमानतीर्थाधिपतिनामज्ञापनार्थं । श्रीमद्वीरेत्यादि सम्बोधनपदमनुक्तसंबोधनकाव्येऽपि सम्बन्धनीयमितिकाव्यार्थः॥
अथ भगवद्गुणानामानन्याद्वाग्गोचरीकर्तुमसामयं दृष्टा