________________
श्रीमहावीरविज्ञप्तिगुरुरित्यादिवचोमात्रेण तवाज्ञामङ्गीकृत्यापि मधुपिधानविषकुम्भसदृशा ये तव वैरिणस्तानेव तव पुरस्ताद् वाग्गोचरीकुर्वे इति काव्यार्थः॥ ___ अथ प्रतिज्ञारूढाः कतिसङ ख्याका इति दर्शयन् सहेतुकप्रीतिसूचागर्भितं काव्यमाहस्वामिन् सम्प्रति तेऽपि बहुशस्तत्र प्रसिद्धा दश, . शेषाः किश्चिदकिश्चिदेतदितरे त्वद्वोधबोध्याश्च ते । नामग्राहनिरूपिता हितममी तीर्थस्य ते स्युस्ततः, प्रीतिढतरेप्सिता च सततं स्यादावयोस्तत् शृणु ॥४॥
व्या०-हे स्वामिन् ! तेऽपि-प्रतिज्ञारूढा अपि, सम्प्रतिप्रस्तुतस्तुतिकर्तृकाले, वहुशो-बहुप्रकाराः, तत्र-तेषु द्विषत्सु, दश-दशसङ्ख्याकाः अनन्तरवक्ष्यमाणकाव्यद्वयोदितनामानः प्रसिद्धाः, शेषाः-द्वित्राः किञ्चित्प्रसिद्धाः, एतदितरे-एतद्व्यतिरिक्ताः अकिञ्चित्प्रसिद्धाः-अप्रसिद्धनामानः। ये च किञ्चिप्रसिद्धाः अकिञ्चित्प्रसिद्धाश्च ते-सर्वेऽपि त्वद्वोधबोध्या:तव ज्ञानगोचराः, अकिञ्चित्करत्वान्नाहं वाग्गोचरीकुर्वे इत्यर्थः । ये च दशसङ ख्याकाः प्रसिद्धनामानस्ते नामग्राहनिरूपितास्तीर्थस्य-साध्वादिसमुदायस्य, हितं-पथ्यं स्युः। यतस्तीर्थस्य हितं, तत आवयोः- त्वं चाहं चावां, तयोरावयोरिप्सितावान्छिता, प्रीतिः सततं-निरन्तरं गाढतरा-अतिशयेन निबिडा,