________________
मध्यमोत्सूत्रिनिदर्शनम्
१२३ यानुमाने तु प्रत्यक्षबाधः, प्रबलबलवदिनकराद्यसाध्यानामपि भूमिगृहगतध्वान्तविनाशाद्यर्थानां दिनकराद्यपेक्षयाऽल्पबलैरपि प्रदीपादिभिः साध्यमानत्वेन दर्शनात् । उक्तमपि
'विश्वान्धकारविध्वंस-हेतुर्भे लिमहानपि। । नालं प्रदीपवद् भूमि-गृहान्तस्तमसोऽपहृत्।।१।। एवं शासनश्रुतदेवताद्यपि क्वापि तीर्थकराद्यसाध्यस्यापि कार्यस्य प्रसाधकमिति न दोषः । 'आपेक्षिकी हि प्रवचने स्याद्वादमुद्रेति वचनात् एकस्मिन्नपि वस्तुनि सामर्थ्यासामर्थ्ययोरपेक्षया च स्वीकारात् । यथा रिपुबलमर्दनसमर्थोऽपि करी न सर्षपकणमादातुं समर्थः। एतेन तीर्थप्रवर्तनात् सर्वोपकारित्वेन सर्वेषामप्याराध्योऽहन्नेवाऽऽराधितः सर्वेप्सितार्थसम्पादको भविष्यतीति व्यर्थमेव तदतिरिक्ताऽऽराधनमित्यपि शङ्का निरस्ता। तीर्थकरस्मरणादिनाऽनुपलभ्यमानानामप्यहिकश्रुताद्युपसम्पदामाचार्यादिपर्युपासनादित एवोपलभ्यमानत्वात् । उक्तं च‘विणओणएहिं पंजलि-उडेहिं छंदमणुवत्तमाणेहिं । आराहिओ गुरुजणो, सुयं बहुविहं लहुं देई'।।१।।
[ आव० नि० गा० १३८ ] यच्च गणधरान् प्रत्यर्हन्तः श्रुतदायकास्तदायकग्राहकयोरतिशयविशेषादेव, न पुनराचार्यादिवदिति बोध्यम् । किञ्चाऽर्हतोप्याराधनमर्हदाज्ञाङ्गीकरणपूर्वकमेव भवति । आज्ञा च सर्वाऽऽराध्याराधनविषयिणी । तथा चाऽऽराध्यत्वेनोपदिष्टस्य तीर्थस्यान्तर्भूतानां शासनश्रुतदेवतादीनां सामान्येनाऽऽराध्यत्वेऽपि नामग्राहेण पृथगप्याराधनमागमोक्तम् ।