________________
१२२.
, षोडशश्लोक्यांत नता-श्रुताद्यर्थप्रार्थना तीर्थकरादिभ्योऽफलवत्त्वे सति शासनश्रुत देवतादिभ्यो न फलवती, तेषां तीर्थकराद्यपेक्षयाऽल्पबलत्वात् । सामान्येन व्याप्तिग्रहस्त्वेव-यो यदपेक्षयाऽल्पबलः, स तदधिकबलवदसाध्यसाधको न भवति । यथा चक्रवर्त्यपेक्षया भूमण्ड-. लाधिपः। तस्मादैहिकनिर्विघ्नता-श्रुताद्यर्थप्रार्थनायाः फलवद्विधानाय तीर्थकरादय एव स्मृत्या दिगोचरीकार्याः, न पुनः श्रुतदेवतादय इति । तत्र सुयुक्त्युद्भावना त्वेवं-तत्र प्रथमानुमानं ता-: वदाऽऽगमबाधितमेव, सम्यग्दृगदेवतास्तुतेर्बोधिबीजसुलभताहेतुत्वेनाऽऽगमे प्रतिपादनात् । उक्तं च श्रीस्थानाङगे-पंचहिं. ठाणेहिं जीवा सुलहबोहियत्ताए कम्मं पकरेंति, तं० अरहंताणं वण्णं वदमाणे, अरहंतपण्णत्तस्स धम्मस्स व०, आयरियउवज्झायाणं व०, चाउवण्णस्स संघस्स व०, विवक्कबंभचेराणं देवाणं वण्णं वदमाणे'त्ति [सू०४२६] । तथा सत्प्रतिपक्षताऽपि । शासन देवतास्तुतिर्न सम्यक्त्वमालिन्यहेतुः, आगमोपदिष्टत्वात्। तीर्थकरादिस्तुतिवदिति । आगमोपदिष्टत्वं च सामान्यतोऽनन्तरोक्तं। व्यक्तितस्त्वग्रे वक्ष्यते। यद्वा शासनश्रुतदेवतास्तुतिर्न सम्यक्त्वमालिन्यहेतुः सम्यक्त्वहेतुर्वा, सम्यग्दृष्टिदेवतास्तुतित्वात्, तीर्थङ्करजन्माद्यत्सवादिप्रवचनप्रभावनापरायणपुरन्दरस्तुतिरिव। विधेयतयाऽऽगमानुपदिष्टत्वमुपाधिरपि । किञ्च-यदि सामान्यहेतुना देवतास्तुतित्वेन सम्यक्त्वमालिन्यहेतुत्वं साध्यते, साध्यतां तर्हि मनुष्यत्वा दिसामान्यहेतुनाऽन्यतीर्थिकदृष्टान्तेन तीर्थकरादीनामप्यनाराध्यता । तस्माद् यत्किञ्चिदेतत् । द्विती