________________
मध्यमोत्सूत्रिनिदर्शनम्
१११ सङ्करत्वं । स च वन्ध्यः। 'वीजामती' इति लोकप्रसिद्धिः । तन्मते ऽनेकेषां मतानां देशेन वेषोत्सूत्राभ्यां प्रवेशात् ह । जिनार्चायां न विद्यते उपदेशो यस्यामेवंविधा निन्द्यदेशनारूपा वाक्-वाणी यस्य सः जिनार्चाऽनुपदेशवाक्-पाशचन्द्र इत्यर्थः । तन्मते जिनपूजादिषु सावद्यत्वधिया साधूपदेशस्यानङ्गीकारात् १०, इत्यक्षरार्थः। ___ भावार्थस्त्वयं-दिगम्बरमते स्त्रीणां मुक्त्यभावस्तत्र तस्य कुयुक्त्युद्भावना त्वेवं-स्त्रियो न · मुक्तिभाजो, वस्त्रादिपरिग्रहोपेतत्वादेशविरतिवदिति । यद्वा स्त्रियो न मुक्तिभाजः, तथाविधचित्ताऽसामर्थ्यात् साम्प्रतीनपुरुषवदिति। यद्वा स्त्रियो न मुक्तिभाजः, पुरुषेभ्यो हीनत्वात् जातिनपुंसकवदित्यादि । तत्र सुयुक्त्युद्भावना त्वेवं-ननु भो नग्नाट ! पक्षत्वेनाभिमता याः स्त्रियस्ताः असंयतिन्यः संयतिन्यो वा ? । आद्य, सिद्धसाधनं । अस्माकमपि तथैवाभिमतत्वात् । नहि वयमप्यसंयतिनीनां स्त्रीणां मुक्तिसद्भावं वदामः । द्वितीये, संयतिनीनां स्त्रीणां वस्त्रादिर्न परिग्रह इत्यतो हेतुः स्वरूपासिद्धः। परिग्रहत्वाभावस्तु मूर्छाद्यभावेन संयमादिरक्षार्थमेव वस्त्रादिधारणात्।
उक्तंचाऽऽगमे -'जंपि वत्थं व पायं वा कंबलं पायपुंछणं । तंपि संजमलजट्ठा धारंति परिहरंति य ॥१॥ न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इअ वुत्तं महेसिणा ॥२॥
[दशवै०] इति । न च स्वनिश्रितत्वेन वस्त्रादौ मूर्छा भवत्येवेति शङ्कनीयं । स्वशरीरशिष्यादावपि तथात्वेन मूर्छाप्रसङ्गात्