________________
षोडशश्लोक्यां
तन्मते पाक्षिकत्वेन पूणिमायामेवाऽऽग्रहात् २ । स्त्रीणां जिनाच स्त्री जिनार्था, तस्या अरि-वरी स्त्रीजिनाचरिः औष्ट्रिकापरपर्यायः खरतर इत्यर्थः । तन्मते स्त्रीणां जिनपूजाया निषिद्धत्वात् ३ । अञ्चलो-वस्त्रान्तभागः, स एव श्रावकद्वारा चिह्न ं यस्येति मत्वर्थेऽच्विधानादचलः प्रतीतः । तन्मते श्रावकश्राविकाणां सामायिकादौ रजोहरणमुखवस्त्रिका परित्यागेनलस्यैव ग्रहणात् ४। सार्द्धराका-सार्द्धपूर्णिमा, तत्र रतः कदाग्रही, सार्द्धराकारतः सार्द्धपूणिमीयक इत्यर्थः । तन्मते सार्द्धपूणिमायाः स्वीकारात् ५ । तिस्रः स्तुतयोऽभिमता यस्य स त्रिस्तुतिक:- आगमिक इत्यर्थः । स चोक्तपञ्चकापेक्षया षष्ठो मतः । तन्मते चतुर्थस्तुतेरनङ्गीकारात् । एते दिगम्बराद्याः षट् गुरुतत्त्वप्रदीपे उक्ताः गुरुतत्त्वप्रदीपोक्ताः । अयं भावः उत्सूत्रकन्दकुद्दालग्रन्थकर्तृ काले प्रकृतग्रन्थोक्तदशकमध्ये षण्णामेव विद्यमानत्वात् तत्र पडेवोक्ताः । शेषचतुष्टयं त्वधिकृतषोडशश्लोक्यामथेत्यादिसूत्रेणोच्यते इति । अथेत्यानन्तर्याऽर्थे गुरुतत्त्वप्रदीपे पडुक्ताः । अथ तदनु समुत्पन्ना चतुष्टयीत्वेवं चैत्यं - जिनप्रतिमा, तस्य द्वि-प्रत्यर्थी लुम्पाक इत्यर्थः । तन्मते जिनप्रतिमाया अनङ्गीकारात् ७ । गुरुःसुसाधुः, तत्र न विद्यते दृष्टि-दर्शनमात्रे लोचनं यस्य । यद्वा सन्तमपि गुरुं न पश्यतीति क्विविधानात् गुर्व्वदृक्-कटुक इत्यर्थः । तन्मते गुरुदर्शनाऽनङ्गीकारात् । सम्प्रत्यत्र सुसाधवो न दृष्टिपथमायान्तीत्येवं तस्योपदेशात् ८ । मिश्रः सङ्करः, प्रायः पूर्णि माद्युत्सूत्रैर्देशेन प्रागुक्तमतसाम्याद् लुम्पाकादिवेषसाङ्कर्याद्वाऽस्य
११०